This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
तीति । यत्परमुत्कृष्टमोमिति पदम् । 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषाय
पदत्वम् । ओमिति प्रणवरूपमकारोकारमकारात्मकं पदं हृदि हृदाकाशे अनाहतं न
केनाप्युच्चारितं सत् दन्ध्वनीति अत्यर्थे ध्वनति । कीदृशम् । हृदाकाशादुत्थाय उरसि
वक्षसि स्फुरत् । पुनश्च किंभूतम् । गर्भेत्यादि । गर्भे गुम्फितमन्तलीनं समस्तं वाङ्मयं
चतुर्दशविद्यारूपं यस्य । किमधिकेन वयं पारमेश्वरं परं ज्योतीरूपं महः प्रणवरूपेण
हृदाकाशे अनाहतशब्दरूपं वन्दामह इत्याशयः । अस्मिन्वृत्ते प्रथमचतुर्थपादयोः 'ओं
तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति । हरस्य गर्भत्वं च तज्ज्ञैरूयम् ॥
 
भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् ।
 
येन तज्झगिति शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ ७ ॥
 
भानुनेति । वयं तन्महः परं ज्योतिरुपास्महे । तत्किम् । येन आन्तरं ध्वान्तमवि-
द्यात्मकमज्ञानं झगिति सहसैव शान्तिमेति । तत्किम् । भानुना सूर्येण तुहिनभानुना च
न्द्रेण बृहद्भानुनाग्निना च यन्न विनिवर्तितम् । विशेषेणापुनरागमनरूपेण न निवर्तितं न
निवारितम् । तथाविधमज्ञानाख्यं गाढं तमः परं ज्योतीरूपेणैव विनिवार्यम् । सहसैवे-
त्यर्थः । तथा हि ——न तत्र सूर्यो भाति न चन्द्रतारका नेमा विद्युतो भान्ति कुतोऽय-
मग्निः । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ॥' इति श्रुतिः ॥
की चकादिकुहरेष्विवाम्बरं बिम्बमम्बरमणेरिवोर्मिषु ।
 
एकमेव चिदचित्स्वनेकधा यञ्चकास्ति तदुपास्महे महः ॥ ८ ॥
 
कीचकादीति । वयं तन्महः परं ज्योतिरुपास्महे । तत्किम् । यदेकमेव अद्वितीयं
परं ब्रह्म चिदचित्सु चेतनाचेतनेषु चकास्ति देदीप्यमानमस्ति । कुत्र किमिव । कीचका
वेणुविशेषाः । 'सरन्ध्राः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इति । आदिशब्देन का
हलाभेरीढक्कादिपरिग्रहः । तेषु यथाम्बरं गगनमेकमेवानेकधा चकास्ति । तथाम्बरम-
णोर्बम्बं सूर्यबिम्बं यथा एकमेवोर्मिषु जलतरङ्गेष्वनेकधा चकास्ति तद्वत् ॥
 
तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् ।
मीलिताखिलविकल्पविष्ठवं पारमेश्वरमुपास्महे महः ॥ ९ ॥
 
तर्केति । वयं पारमेश्वरं परमेश्वरसंबन्धि मह उपास्महे । किंभूतम् । अगोचरम् ।
कासाम् । तर्ककर्कशगिराम् । अनिष्टप्रसञ्जनं तर्कः । 'तर्कोऽनिष्टप्रसङ्गः स्यात्' इति ता-
किंकरक्षायाम् । अतर्यैश्वर्येऽपि परमेश्वरे किमाधारः किंकाय: किंचेष्टः किमुपायश्च
त्रिभुवनं सृजतीत्यादिर्यो मूढधियां तर्कस्तेन याः कर्कशा गिरस्तासामगोचरम् । वाङ्म-
नसातीतैश्वर्यमित्यर्थः । 'शास्त्रेणापि न वक्तव्यं स्वसंवेद्यं परं पदम्' इत्युक्तेः । स्वसंवे-
द्यत्वमेवाह – स्वानुभूतीति । पुनश्च किंभूतम् । स्वा चासावनुभूतिरनुभवस्तस्य यः समयः
स एवैकः साक्षी यस्य । आत्मीयानुभव एव तस्य परज्योतिषः साक्षोत्यर्थः । तथा मी-
लिताखिलविकल्पविप्लवं निमीलित समस्तचिन्ताजालम् ॥
 
Digitized by Google