This page has been fully proofread once and needs a second look.

१८४
 
काव्यमाला ।
 
आराधिताः प्रचपला श्चपलावदेव
 

दुष्टेश्वरा न गुरवो गुरवो गुणौधैः ।

यातानि तानि मम हानिमहानि मिथ्या

श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७१ ॥
 

 
हे स्वामिन्, चपला विद्युत्तद्वत्प्रकर्षेण चपलाश्चश्ञ्चलाश्लचित्ता दुष्टेश्वरा दुरीश्वरा

आराधिताः । मया मूढेनेति शेषः । गुणौघैः पाण्डित्यदयादिभिर्गुरवो महान्तो गुरवो

दैशिका नाराधिता नोपासिताः । अतो हेतोर्मम तान्यहानि दिनानि मिथ्या व्यर्थमेव

हानिँनिं क्षयं यातानि । हा कष्टे । विततं विस्तीर्णं यन्मोहतमोऽज्ञानरूपं तमस्तेन तो-

ऽहं श्रान्तोऽस्मि खिन्नोऽस्मि ॥
 
"
 

 
तृष्णा दिनाद्दिनमबृंहत बंहिमान-

मायामिनी मनसि हैमनयामिनीव ।

नाथ त्रिधामनयनार्पय दृक्प्रसादं
 

सादं नयान्धतमसं भ्रमसंभृतं मे ॥ ७५ ॥
 

 
हे त्रिधामनयन । त्रीणि धामानि सूर्येन्दुवह्निरूपाणि नयनेषु यस्य स तत्संबोधनम् ।

आयामिनी विस्तारवती हैमनयामिनी हेमन्तरात्रिरिव मम मनसि तृष्णा एतावदेव लब्धं

कदापरं लप्स्ये इत्यादिरूपा दिनाद्दिनं बंहिमानं बहलस्य भावो बंहिमा तं बहलीभाव-
मवृं

मबृं
हतावर्धयत् । हे नाथ, त्वं दृक्प्रसादमर्पय प्रसन्नां दृशमर्पय तथा भ्रमसंभृतं भ्रमे-

णासत्येsपि सत्यभ्रमेण संभृतं संचितमन्धतमसमज्ञानरूपं गाढं तमः सादं विनाशं नय
 

प्रापय ॥
 

 
स्तम्भं विजृम्भयति दम्भमयं भ्रमं च

कंचित्प्रपञ्चयति यच्छति वाचि मुद्राम् ।

कं नाम नामयमयं प्रथयत्यखर्व-

गर्वज्वरज्वलनदुःसहसंनिपातः ॥ ७६ ॥
 

 
हे स्वामिन्, अयमखर्वेत्यादि । अखर्वोऽलघुर्महान्यो गर्वोऽहंकारः स एव ज्वरस्तेन

योऽग्निर्महासंतापरूपः स एव दुःसहः संनिपातो दुर्निवारसंनिपातमयो ज्वरो दम्भमयं

द्मग्रमयं स्तम्भं स्तब्धीभावं विजृम्भयति । भ्रमं चासत्येऽपि सत्यरूपमकार्येऽपि कार्य-

भ्रमं कंचित्प्रपश्चर्यातयति विस्तारयति । तथा वाचि मुद्रां मौनं च यच्छति ददाति । तथा

कं नामामयं कम्पमूर्छालस्यादिकं रोगं प्रथयति विस्तारयति । संनिपातज्वरोऽपि वात-

वैषम्येण स्तम्भं काष्ठवत्स्तब्धीभावं विजृम्भयति । तथा पित्तवैषम्येण भ्रमं विस्तार-

यति । 'न पित्तेन विना भ्रमः' इत्यायुर्वेदोक्तेः । तथा श्लेष्मवैषम्येण वाचि मुद्रां मौनं
 
- Digitized by Google