This page has not been fully proofread.

१८४
 
काव्यमाला ।
 
आराधिताः प्रचपला चपलावदेव
 
दुष्टेश्वरा न गुरवो गुरवो गुणौधैः ।
यातानि तानि मम हानिमहानि मिथ्या
श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७१ ॥
 
हे स्वामिन्, चपला विद्युत्तद्वत्प्रकर्षेण चपलाश्चश्चलाश्वलचित्ता दुष्टेश्वरा दुरीश्वरा
आराधिताः । मया मूढेनेति शेषः । गुणौघैः पाण्डित्यदयादिभिर्गुरवो महान्तो गुरवो
दैशिका नाराधिता नोपासिताः । अतो हेतोर्मम तान्यहानि दिनानि मिथ्या व्यर्थमेव
हानिँ क्षयं यातानि । हा कष्टे । विततं विस्तीर्ण यन्मोहतमोऽज्ञानरूपं तमस्तेन इतो-
ऽहं श्रान्तोऽस्मि खिन्नोऽस्मि ॥
 
"
 
तृष्णा दिनाद्दिनमबृंहत बंहिमान-
मायामिनी मनसि हैमनयामिनीव ।
नाथ त्रिधामनयनार्पय दृक्प्रसादं
 
सादं नयान्धतमसं भ्रमसंभृतं मे ॥ ७५ ॥
 
हे त्रिधामनयन । त्रीणि धामानि सूर्येन्दुवह्निरूपाणि नयनेषु यस्य स तत्संबोधनम् ।
आयामिनी विस्तारवती हैमनयामिनी हेमन्तरात्रिरिव मम मनसि तृष्णा एतावदेव लब्धं
कदापरं लप्स्ये इत्यादिरूपा दिनाद्दिनं बंहिमानं बहलस्य भावो बंहिमा तं बहलीभाव-
मवृंहतावर्धयत् । हे नाथ, त्वं दृक्प्रसादमर्पय प्रसन्नां दृशमर्पय तथा भ्रमसंभृतं भ्रमे-
णासत्येsपि सत्यभ्रमेण संभृतं संचितमन्धतमसमज्ञानरूपं गाढं तमः सादं विनाशं नय
 
प्रापय ॥
 
स्तम्भं विजृम्भयति दम्भमयं भ्रमं च
कंचित्प्रपञ्चयति यच्छति वाचि मुद्राम् ।
कं नाम नामयमयं प्रथयत्यखर्व-
गर्वज्वरज्वलनदुःसहसंनिपातः ॥ ७६ ॥
 
हे स्वामिन्, अयमखर्वेत्यादि । अखर्वोऽलघुर्महान्यो गर्वोऽहंकारः स एव ज्वरस्तेन
योऽग्निर्महासंतापरूपः स एव दुःसहः संनिपातो दुर्निवारसंनिपातमयो ज्वरो दम्भमयं
छद्ममयं स्तम्भं स्तब्धीभावं विजृम्भयति । भ्रमं चासत्येऽपि सत्यरूपमकार्येऽपि कार्य-
भ्रमं कंचित्प्रपश्चर्यात विस्तारयति । तथा वाचि मुद्रां मौनं च यच्छति ददाति । तथा
कं नामामयं कम्पमूर्छालस्यादिकं रोगं प्रथयति विस्तारयति । संनिपातज्वरोऽपि वात-
वैषम्येण स्तम्भं काष्ठवत्स्तब्धीभावं विजृम्भयति । तथा पित्तवैषम्येण भ्रमं विस्तार-
यति । 'न पित्तेन विना भ्रमः' इत्यायुर्वेदोक्तेः । तथा श्लेष्मवैषम्येण वाचि मुद्रां मौनं
 
- Digitized by Google