This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१८३
 
दुष्कर्म मधुमुखं विषम् । तथा शूलं जन्मजरामरणत्रासोत्यं शूलारूख्यरोगविशेषं त्वमेवा-

न्तर्यामिधुरीणो जानासि । दयालुर्नासि । अत एवाहं हतः ॥

 
एक स्त्वमेव भविनामनिमित्तबन्धु-

र्
नैसर्गिकी तव कृपा सवितुः प्रमेभेव ।

वामः पुनर्मम विधिः परिदेवितानि
 

[^१]
जातान्यरण्यरुदितेन समानि यस्य ॥ ७९ ॥
 

 
हे ईश परमेश्वर, भविनां संसारिणां त्वमेवैकोऽनिमित्तबन्धुर्निष्कारणबान्धवः ना-

परः । सवितुस्त्रिजगच्चक्षुषः सूर्यस्येव प्रभा कान्तिनैसर्गिकी सहजा तवैव कृपा नान्यस्य ।

एवं सत्यपि यस्य मम परिदेवितानि पूत्कृतान्यरण्यरुदितेन केनाप्याश्वासकेनानिर्वा

र्येण (?) समानि जातानि । तस्य मम पुनर्वामः प्रतिकूलो विधिर्दैवं भवति ॥

 
अत्यन्तदुर्भगमयोग्यमभाग्यभाज-

माजन्मनर्मविमुखं मुखरोग्रवाचम् ।

दैवादवाप्य सकलापसदं महेश
 

नैवात्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२ ॥
 

 
हे महेश परमेश्वर, अत्यन्तदुर्भगमत्यन्तदौर्भाग्यवन्तम् अयोग्यमनर्हम् अभाग्यभाज

मभाग्ययुक्तम् तथा जन्मन आरभ्य आजन्म नर्मणि क्रीडायां सुखे विमुखम् तथा

मुखरा असंबद्धा उप्ग्रा कठिना वाग्यस्य स तादृक् तम् । तथा सकलापसदं सकले-

भ्योऽपसदमवरम् दैवान्मामेवाप्य कुलवधूः कुलस्त्रीव दुर्गतिर्जन्मजरामरणोत्थभीति-

रूपा विपत् बाह्या वा व्यापत् यथा कुलवधूरेवंविधमपि पुरुषं दैवबलेन प्राप्य त्रपा-

कुला मानिनी न त्यजति तथा मां नात्यजत् ॥
 

 
मुक्त्वा समाधिमसमाधिहरं परं च
 

प्रोद्दामधाम शिवधाम सुधामयं ते ।

भ्रान्तोऽस्मि तेन मलयानिलवेल्लचल्यमान-

छोल्लोललोलनिधनानि धनानि लब्धुम् ॥ ७३ ॥
 

 
हे शिव कैवल्यदायिन्, यतो दुर्गतिर्मो नात्यजत् । तेन हेतुना असमाश्च ते आध-

यश्च तान्हरतीति तादृशमसमाधिहरं समाधिं योगबलेनात्ममनसोरैक्यरूपं समाधिधिं मुक्त्वा

ग्रोद्दामधाम
प्रोद्दामघाम प्रोद्दाममुद्भटं धाम तेजो यत्र तत्तादृशं ते तव सुधामयममृतरूपं धाम स्थानं

परसंवित्प्रकाशमयं च मुक्त्वा मलयानलेन वेल्लथमाना: कम्प्यमाना ये कल्लोला महात-

रङ्गास्तद्वल्लोलं निधनं विनाशो येषां तानि धनानि लब्धुं भ्रान्तोऽस्मि । दश दिश

इति शेषः ॥
 

 
[^
]. 'जानाति' क.
 
Digitized by Google