This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१८३
 
दुष्कर्म मधुमुखं विषम् । तथा शूलं जन्मजरामरणत्रासोत्यं शूलारूयरोगविशेषं त्वमेवा-
न्तर्यामिधुरीणो जानासि । दयालुर्नासि । अत एवाहं हतः ॥
एक स्त्वमेव भविनामनिमित्तबन्धु-
नैसर्गिकी तव कृपा सवितुः प्रमेव ।
वामः पुनर्मम विधिः परिदेवितानि
 
जातान्यरण्यरुदितेन समानि यस्य ॥ ७९ ॥
 
हे ईश परमेश्वर, भविनां संसारिणां त्वमेवैकोऽनिमित्तबन्धुनिष्कारणबान्धवः ना-
परः । सवितुस्त्रिजगच्चक्षुषः सूर्यस्येव प्रभा कान्तिनैसर्गिकी सहजा तवैव कृपा नान्यस्य ।
एवं सत्यपि यस्य मम परिदेवितानि पूत्कृतान्यरण्यरुदितेन केनाप्याश्वासकेनानिर्वा
र्येण (?) समानि जातानि । तस्य मम पुनर्वामः प्रतिकूलो विधिदैवं भवति ॥
अत्यन्तदुर्भगमयोग्यमभाग्यभाज-
माजन्मनर्मविमुखं मुखरोग्रवाचम् ।
दैवादवाप्य सकलापसदं महेश
 
नैवात्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२ ॥
 
हे महेश परमेश्वर, अत्यन्तदुर्भगमत्यन्तदौर्भाग्यवन्तम् अयोग्यमनईम् अभाग्यभाज
मभाग्ययुक्तम् तथा जन्मन आरभ्य आजन्म नर्मणि क्रीडायां सुखे विमुखम् तथा
मुखरा असंबद्धा उप्रा कठिना वाग्यस्य स तादृक् तम् । तथा सकलापसदं सकले-
भ्योऽपसदमवरम् दैवान्मामेवाप्य कुलवधूः कुलस्त्रीव दुर्गतिर्जन्मजरामरणोत्थभीति-
रूपा विपत् बाह्या वा व्यापत् यथा कुलवधूरेवंविधमपि पुरुषं दैवबलेन प्राप्य त्रपा-
कुला मानिनी न त्यजति तथा मां नात्यजत् ॥
 
मुक्त्वा समाधिमसमाधिहरं परं च
 
प्रोद्दामधाम शिवधाम सुधामयं ते ।
भ्रान्तोऽस्मि तेन मलयानिलवेल्लचमान-
कछोललोलनिधनानि धनानि लब्धुम् ॥ ७३ ॥
 
हे शिव कैवल्यदायिन्, यतो दुर्गतिर्मो नात्यजत् । तेन हेतुना असमाच ते आध-
यश्च तान्हरतीति तादृशमसमाधिहरं समाधिं योगबलेनात्ममनसोरैक्यरूपं समाधि मुक्त्वा
प्रोद्दामघाम प्रोद्दाममुद्भटं धाम तेजो यत्र तत्तादृशं ते तव सुधामयममृतरूपं धाम स्थानं
परसंवित्प्रकाशमयं च मुक्त्वा मलयानलेन वेल्लथमाना: कम्प्यमाना ये कल्लोला महात-
रङ्गास्तद्वल्लोलं निधनं विनाशो येषां तानि धनानि लब्धुं भ्रान्तोऽस्मि । दश दिश
इति शेषः ॥
 
१. 'जानाति' क.
 
Digitized by Google