This page has been fully proofread once and needs a second look.

१८२
 
-
 
पूर्वोक्तमेव समर्थयति कविः-

 
भक्तप्रियः स्वयमपि क्षुधयान्वितस्य

पानोत्सवैकरसिकोऽपि पिपासितस्य ।
 
काव्यमाला ।
 

तापातुरस्य घनसेवनसादरोऽपि
 

जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८ ॥
 

 
हे नाथ, त्वं स्वयमपि भक्तप्रियः भक्ता वाङ्मनः कर्मभिस्त्वयानासक्तास्ते प्रिया यस्य

स तादृक् । क्षुधया त्वद्दर्शनबुभुक्षया भोक्तमिच्छया चान्वितस्य ममार्ति मनःपोडां

कथं न जानासि । अथ च भक्तमग्नं प्रियं यस्य स भक्तप्रियः । यस्तुच्छोऽपि सोऽन्यस्य

क्षुदन्वितस्यार्ति जानाति । 'भक्तमन्धोऽन्नं' इत्यमरः । पानं रसायनपानं स एवोत्सवस्त-

त्रैकरसिकोऽपि त्वम् । तथा पानं रक्षणं त्रिजगतः । 'पा पाने रक्षणे च ।' तत्रैकरसि-

कोsपि त्वं पिपासितस्य त्वद्दृष्टित्रिभागैकांशावलोकनपिपासायुक्तस्य च मम सहसा

इदानीमार्ति कथं न जानासि । तथा तापैराध्यात्मिकाधिदैविकाधिभौतिकैस्त्रिभिरेव तापैः

संतापैश्चातुरस्य मम धनं च तत्सेवनं भक्तजनेन कृतं सादरम् अथ च घनानां मेघानां

सेवने सादरोऽपि त्वं मम तापातुरस्य कथं नार्ति जानासि ॥

 
सर्वज्ञ सर्वमवगच्छसि भूतभावि

भाग्यक्षयः पुनरसौ भगवन्ममैव ।

जानासि यस्य हृदयस्थित एव नाति
 
र्ति
ज्ञात्वापि वा गजनिमीलितमातनोषि ॥ ६९ ॥
 

 
सर्वे जानातीति सर्वज्ञस्तत्संबोधनं हे सर्वज्ञ, त्वं सर्वेवं भूतमतीतं भावि भविष्यच्चावग-

च्छसि जानासि । हे भगवन्, यस्य ममैव हृदयस्थित एव ममार्ति न जानासि । वा

पक्षान्तरे । ज्ञात्वापि वा ममार्तितिं गजनिमीलितं गजस्येव निमीलितमक्षिनिमीलनमव-

ज्ञापर्यायमातनोषि विधत्से ।
 

 
भालेऽनलं तव गले गरलं करे च
 

शूलं प्रकाशमखिलोऽयमवैति लोकः ।

अन्तर्गतं त्रयमिदं तु मम त्वमेव
 

जानासि नासि च दयालुरतो हतोऽहम् ॥ ७० ॥
 

 
हे नाथ, तव भाले ललाटेऽनलमभिंग्निं गले कण्ठे गरलं विषं कालकूटाख्यं करे हस्ते

च शूलं त्रिशिखं प्रकाशं स्फुटमेवायमखिलो लोको जानाति । तुः पक्षान्तरे । ममान्त-

र्गतं हृदयस्थितं त्रयमग्निमाश्वासकारणशुद्धज्ञानवियोगशोकाग्निम् । विषं परिणामदारुणं
 
Digitized by Google