This page has not been fully proofread.

१८२
 
-
 
पूर्वोक्तमेव समर्थयति कविः-
भक्तप्रियः स्वयमपि क्षुधयान्वितस्य
पानोत्सवैकरसिकोऽपि पिपासितस्य ।
 
काव्यमाला ।
 
तापातुरस्य घनसेवनसादरोऽपि
 
जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८ ॥
 
हे नाथ, त्वं स्वयमपि भक्तप्रियः भक्ता वाङ्मनः कर्मभिस्त्वयानासक्तास्ते प्रिया यस्य
स तादृक् । क्षुधया त्वद्दर्शनबुभुक्षया भोक्तमिच्छया चान्वितस्य ममार्ति मनःपोडां
कथं न जानासि । अथ च भक्तमनं प्रियं यस्य स भक्तप्रियः । यस्तुच्छोऽपि सोऽन्यस्य
क्षुदन्वितस्याति जानाति । 'भक्तमन्धोऽन्नं' इत्यमरः । पानं रसायनपानं स एवोत्सवस्त-
त्रैकरसिकोऽपि त्वम् । तथा पानं रक्षणं त्रिजगतः । 'पा पाने रक्षणे च ।' तत्रैकरसि-
कोsपि त्वं पिपासितस्य त्वदृष्टित्रिभागैकांशावलोकनपिपासायुक्तस्य च मम सहसा
इदानीमार्ति कथं न जानासि । तथा तापैराध्यात्मिकाधिदैविकाधिभौतिकैस्त्रिभिरेव तापैः
संतापैश्चातुरस्य मम धनं च तत्सेवनं भक्तजनेन कृतं सादरम् अथ च घनानां मेघानां
सेवने सादरोऽपि त्वं मम तापातुरस्य कथं नार्ति जानासि ॥
सर्वज्ञ सर्वमवगच्छसि भूतभावि
भाग्यक्षयः पुनरसौ भगवन्ममैव ।
जानासि यस्य हृदयस्थित एव नाति
 
ज्ञात्वापि वा गजनिमीलितमातनोषि ॥ ६९ ॥
 
सर्वे जानातीति सर्वज्ञस्तत्संबोधनं हे सर्वज्ञ, त्वं सर्वे भूतमतीतं भावि भविष्यच्चावग-
च्छसि जानासि । हे भगवन्, यस्य ममैव हृदयस्थित एव ममाति न जानासि । वा
पक्षान्तरे । ज्ञात्वापि वा ममार्ति गजनिमीलितं गजस्येव निमीलितमक्षिनिमीलनमव-
ज्ञापर्यायमातनोषि विधत्से ।
 
भालेऽनलं तव गले गरलं करे च
 
शूलं प्रकाशमखिलोऽयमवैति लोकः ।
अन्तर्गतं त्रयमिदं तु मम त्वमेव
 
जानासि नासि च दयालुरतो हतोऽहम् ॥ ७० ॥
 
हे नाथ, तव भाले ललाटेऽनलमभिं गले कण्ठे गरलं विषं कालकूटाख्यं करे हस्ते
च शूलं त्रिशिखं प्रकाशं स्फुटमेवायमखिलो लोको जानाति । तुः पक्षान्तरे । ममान्त-
र्गतं हृदयस्थितं त्रयमनिमाश्वासकारणशुद्धज्ञानवियोगशोकाग्निम् । विषं परिणामदारुणं
 
Digitized by Google