This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तत्सांप्रतं गतिविहीनमनात्मनीनं
 

दीनं जनं प्रति कुतः करुणावलेपः ॥ ६५ ॥
 

 
हे नाथ, दोषैर्मात्सर्यादिभिरुद्धते उद्टे रिपौ शत्रौ सुहृदि नितान्तमिषे वा समदर्श-

नस्य समदृष्टेस्तव यदि दयार्दे कृपारसार्द्रे हृदयमस्ति तद्युक्तमुचितम् । दोषोद्धते इति

दूरस्थपदत्वेऽपि भक्तिविषये न दोषः । तत्तस्माद्धेतोः सांप्रतमिदानीं गतिविहीनं निर्गतिं

कांदिशीकं च । आत्मनो हित आत्मनीनः पुण्यकृत्त्वात् । नात्मनीनोऽनात्मनीनस्तादृशं

दीनं जनं मल्लक्षणं प्रति हे नाथ, तव कुतः करुणावलेपः करुणायाः कृपाया अवलेपो-

Sवगणनम् ॥
 
१८१
 

 
अभ्युद्गमोऽयमशनेरमृतांशु बिम्बा-

त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः ।

युष्मादृशस्य करुणाम्बुनिधेरकस्मा-

दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६ ॥
 

 
हे स्वामिन्, युष्मादृशस्य एकनिमेषेणैव त्रिजगदुद्धारकस्य कृपाम्बुधेरकस्मान्निर्हेतु •

कमशरणेषु रक्षितारमलभमानेष्वस्मादृशेषु वराकेषु यदवधीरणमस्ति अमृतांशुविबिम्बात्सु -

धांशुमण्डलात्सोऽयमशनेस्तडित उद्गमः प्रभवो भवति । तथा दिनमणेर्भास्करादसौ ति-

मिरप्ररोहोऽन्धकारोत्पत्तिः । असंभाव्यमेतत्स्वयं यथा तथाशरणजनावधीरणमपि विभो-

रित्यर्थः । एतद्वृत्ताभिप्रायेण ममाप्येकं वृत्तम् – 'सर्वतो वृतमघैः कृपानिधिः सोऽपि

मां ध्रुवमुपेक्षते प्रभुः । मृण्मयं समधिगम्य भाजनं स्पर्शरत्नमपि किं करिष्यति ॥'

इति । यस्य स्पर्शमात्रेण सप्तानामपि धातूनां काञ्चनीभावस्तत्स्पर्शरत्नम् ॥
 
-
 

 
स्वामिन्मृडस्त्वमुरुदुःखभरार्दितोऽहं

मृत्युंजयस्त्वमथ मृत्युभयाकुलोऽहम् ।

गङ्गाधर स्त्वमहमुग्रभवोपताप-

तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७ ॥
 

 
हे स्वामिन्, त्वं विभुर्मृड: । मृडयति सुखयति परामृतदानेन त्रिजगदिति मृडः ।

त्वं मृडोऽसि । अहं तूरुणा महता दुःखभरेण जन्मजरामरणजदुःखभरेणार्दितः पीडि-

तोऽस्मि । हे नाथ, त्वं मृत्युं यमं जयति दाहकत्वादिति मृत्युंजयोऽसि । अथानन्तर्ये ।

अहं मृत्युभयेन महता मरणजत्रासेनाकुलोऽस्मि । हे स्वामिन्, त्वं गङ्गाधरो जटाजूटे

गङ्गां धारयसि अहं तूप्ग्रः कठिनो यो भवोपतापो भवमरुभ्रमणज उपतापस्तेनोपतप्तो-

ऽस्मि । अतः कारणात् हे स्वामिन, अहं तव कथं कथं नानुकम्प्पोऽस्मि । स्वमेवात्र

चिकित्सक इत्यर्थः । तथा च मदीयमपि वृत्तमेकम् – 'भवजीर्णज्वरातापमोहकम्पाकु-

लाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥" सुदर्शनाख्यस्य जीर्णज्वरहरस्य

चूर्णविशेषस्य चांशम् ॥
 
Digitized by Google