This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तत्सांप्रतं गतिविहीनमनात्मनीनं
 
दीनं जनं प्रति कुतः करुणावलेपः ॥ ६५ ॥
 
हे नाथ, दोषैर्मात्सर्यादिभिरुद्धते उद्घटे रिपौ शत्रौ सुहृदि नितान्तमिषे वा समदर्श-
नस्य समदृष्टेस्तव यदि दयाई कृपारसाई हृदयमस्ति तयुक्तमुचितम् । दोषोद्धते इति
दूरस्थपदत्वेऽपि भक्तिविषये न दोषः । तत्तस्माद्धेतोः सांप्रतमिदानीं गतिविहीनं निर्गतिं
कांदिशीकं च । आत्मनो हित आत्मनीनः पुण्यकृत्त्वात् । नात्मनीनोऽनात्मनीनस्तादृशं
दीनं जनं मल्लक्षणं प्रति हे नाथ, तव कुतः करुणावलेपः करुणायाः कृपाया अवलेपो-
Sवगणनम् ॥
 
१८१
 
अभ्युद्गमोऽयमशनेरमृतांशु बिम्बा-
त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः ।
युष्मादृशस्य करुणाम्बुनिधेरकस्मा-
दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६ ॥
 
हे स्वामिन्, युष्मादृशस्य एकनिमेषेणैव त्रिजगदुद्धारकस्य कृपाम्बुधेरकस्मानिर्हेतु •
कमशरणेषु रक्षितारमलभमानेष्वस्मादृशेषु वराकेषु यदवधीरणमस्ति अमृतांशुविम्बात्सु -
धांशुमण्डलात्सोऽयमशनेस्तडित उद्गमः प्रभवो भवति । तथा दिनमणेर्भास्करादसौ ति-
मिरप्ररोहोऽन्धकारोत्पत्तिः । असंभाव्यमेतत्स्वयं यथा तथाशरणजनावधीरणमपि विभो-
रित्यर्थः । एतद्वृत्ताभिप्रायेण ममाप्येकं वृत्तम् – 'सर्वतो वृतमघैः कृपानिधिः सोऽपि
मां ध्रुवमुपेक्षते प्रभुः । मृण्मयं समधिगम्य भाजनं स्पर्शरत्नमपि किं करिष्यति ॥'
इति । यस्य स्पर्शमात्रेण सप्तानामपि धातूनां काञ्चनीभावस्तत्स्पर्शरत्नम् ॥
 
-
 
स्वामिन्मृडस्त्वमुरुदुःखभरार्दितोऽहं
मृत्युंजयस्त्वमथ मृत्युभयाकुलोऽहम् ।
गङ्गाधर स्त्वमहमुग्रभवोपताप-
तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७ ॥
 
हे स्वामिन्, त्वं विभुर्मृड: । मृडयति सुखयति परामृतदानेन त्रिजगदिति मृडः ।
त्वं मृडोऽसि । अहं तूरुणा महता दुःखभरेण जन्मजरामरणजदुःखभरेणार्दितः पीडि-
तोऽस्मि । हे नाथ, त्वं मृत्युं यमं जयति दाहकत्वादिति मृत्युंजयोऽसि । अथानन्तर्ये ।
अहं मृत्युभयेन महता मरणजत्रासेनाकुलोऽस्मि । हे स्वामिन्, त्वं गङ्गाधरो जटाजूटे
गङ्गां धारयसि अहं तूप्रः कठिनो यो भवोपतापो भवमरुभ्रमणज उपतापस्तेनोपतप्तो-
ऽस्मि । अतः कारणात् हे स्वामिन, अहं तव कथं कथं नानुकम्प्पोऽस्मि । स्वमेवात्र
चिकित्सक इत्यर्थः । तथा च मदीयमपि वृत्तमेकम् – 'भवजीर्णज्वरातापमोहकम्पाकु-
लाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥" सुदर्शनाख्यस्य जीर्णज्वरहरस्य
चूर्णविशेषस्य चांशम् ॥
 
Digitized by Google