This page has not been fully proofread.

१८०
 
काव्यमाला ।
 
दानं प्रदातुमघनो यदि न क्षमोऽहं
दासत्वमस्तु मम देव भवद्गणानाम् ॥ ६२ ॥
 
हे देव शंभो, एष गणमुखो दानजलेन मदाम्भसावसिक्तं तथा दानजलेन दानार्थ
जलेन वारिणावसिक्तं च हस्तं करं यतः सदा वहति तेन हेतुना एष गजमुख श्वेप्रमथा-
धिपत्यं गणाधिपत्वमलभत तर्हि दानं प्रदातुमधनत्वाद्यदि न क्षमोऽहमस्मि तदा भवद्ग-
णानां भवदीयसेवकानां नन्दिमहाकालप्रभृतीनामेव दासत्वं ममास्तु । इति काङ्क्ष इत्यर्थः ॥
हेयोऽस्म्य सेवकतया तैव चेद्रहेषु
 
कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् ।
द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा-
वेतावता परिहृता भवता किमन्ये ॥ ६३ ॥
 
-
 
हे नाथ, असेवकतया वाच्यनः कर्मभिरनिशं भवच्चरणसरोजस्यासेवकतुल्यमेव राशि-
भोगं मेषादिद्वादशराशिभोगं भुक्तवत्सु सत्सु द्वावेवार्कचन्द्रौ तव विभोर्हक्पथं दृक्स्थानं
नोज्झतः । तयोरेव सव्यापसव्यदृक्स्थत्वात् । अथ च दृक्पथं दर्शनगोचरं नोज्झतः ।
हे विभो, एतावतैव भवता स्वामिना अन्ये भौमाद्या ग्रहाः किमुज्झिताः । अहं तु प्र-
तिक्षणं भवश्चिन्तनपरः कथं हेयोऽस्मीत्यर्थः ।
 
बालावुभौ द्विजपती तव नाथ भक्ता-
वेकस्तयोर्हरति संतमसं प्रेजानाम् ।
तेनावृतं यदि परं सहसे महेश
 
द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ ६४ ॥
 
हे नाथ, बालौ कुमारौ उभौ द्विजपती द्विजानां नक्षत्राणां पतिः, द्विजानां ब्राह्म-
णानां च पतिः । तौ । एको बालो द्विजपतिर्बालेन्दुः । अन्यो बालो द्विजपतिर्मल्ल-
क्षणः । तो तव भक्तौ सदा भक्त्यासक्तौ । तयोर्मध्ये एको द्विजपतिर्बालेन्दुस्त्वन्मौ
लिस्थ: प्रजानां संतमसं विष्वक्तमो हरति । परं बालं द्विजपतिमर्थान्मल्लक्षणं तेन संतम-
सेनाज्ञानलक्षणेना समन्ताद्वृतं छादितं द्रष्टुं हे महेश, यदि त्वं सहसे क्षमसे ततस्त्वं वि
षमदृष्टिरिति प्रसिद्धोऽसि । विषमा अयुग्मा त्रित्वादृष्टिर्यस्य स तथा पूर्वो दृष्टि(?)रिति
प्रसिद्धोऽसि ॥
 
युक्तं रिपौ सुहृदि वा समदर्शनस्य
दोषोद्धतेऽपि यदि ते हृदयं दयाद्रम् ।
 
१. 'यदि ' ख. २. 'परेषाम्' ख.
 
Digitized by Google