2023-10-14 09:41:03 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
गुर्वापदर्पणपरं कृतगोत्रभेदम् ।
संभाव्य चेत्त्यजसि मां कथमीदृगेव
नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९ ॥
हे स्वामिन्, न्यग्भाविता न्यक्कृता द्विजा ब्राह्मणा येन स तादृशम् । तथा पूर्वमख-
र्विता देवा आचार्याश्च तेषामापदर्पणे दौःस्थ्यदाने परं रतम् । कृतो दौः
येन स तादृशम् । संभाव्य मत्वा चेन्मां त्यजसि
नत्वाड्डि
नत्वाद्द्विजो मयूरो येन स तादृशः । तथाखर्विता महान्तो ये पूर्वदेवगुरवः सुरद्विषां गुर-
वस्तेषामापदर्पणे परस्तत्परः । तथा कृतो गोत्रस्य गिरेः क्रौञ्चाख्यस्य भेदो येन स
कृतगोत्रभेदः जगद्विजयी त्रैलोक्यजेता कुमारो महासेनः कथं तव नेत्रोत्सवो नयनप्र-
काशकरः । अतिप्रियः सुत इत्यर्थः । अर्थवशाद्विभक्तिविपरिणामः ॥
मत्वाथ नाथ शुचिजातिममुं विशाख-
मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।
एवंविधोऽप्यहमनन्यपरायणस्ते
१७९
कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६० ॥
हे नाथ, अथानन्तरं शुचिजातिं शुचेर
उमया त्रैयम्बकं वीर्
विशा
जातिः शुचिः पवित्रा अ
न्यपरायणोऽनन्यगतिकः हे नाथ कस्मात्तवावलेपभूमिरवगणनास्पदमहं भवामि ॥
सर्वापहाररतिरुन्मदवक्रवक्त्र-
स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते ।
एवंविधोऽपि भगवन्गणनायकत्वे
कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१ ॥
हे भगवन्, सर्वस्य वस्तुनो यत्र कुत्रापि लब्धस्यापहारस्तत्र रतिः सुखं यस्य सः ।
तथोन्मदं सहर्
कर्णतालकरः । तथा तुन्दिलो बृहज्जठरोऽयं गजमुखो गणपतिस्त्वया कस्माद्गणानां महा-
कालनन्दिप्रभृतीनां नायकत्वे नियुक्त आज्ञप्तः । 'सर्वापहारो गजास्यः' इत्यमरमाला ॥
हस्तं सदा वहति दानजलावसिक्तं
तेनैष[^१] चेदलभत प्रमथाधिपत्यम् ।
[^१]. 'तेनैव' ख.
Digitized by Google