This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
न्यग्भावितद्विजमखर्वितपूर्वदेव-
गुर्वापदर्पणपरं कृतगोत्रभेदम् ।
संभाव्य चेत्त्यजसि मां कथमीदृगेव
नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९ ॥
 
हे स्वामिन्, न्यग्भाविता न्यकृता द्विजा ब्राह्मणा येन स तादृशम् । तथा पूर्वमख-
विता देवा आचार्याश्च तेषामापदर्पणे दौःस्थ्यदाने परं रतम् । कृतो दौः शील्याद्गोत्रभेदो
येन स तादृशम् । संभाव्य मत्वा चेन्मां त्यजसि तींहगेव न्यग्भावितोऽधोकृतो वाह-
नत्वाड्डिजो मयूरो येन स तादृशः । तथाखर्विता महान्तो ये पूर्वदेवगुरवः सुरद्विषां गुर-
वस्तेषामापदर्पणे परस्तत्परः । तथा कृतो गोत्रस्य गिरेः क्रौञ्चाख्यस्य भेदो येन स
कृतगोत्रभेदः जगद्विजयी त्रैलोक्यजेता कुमारो महासेनः कथं तव नेत्रोत्सवो नयनप्र-
काशकरः । अतिप्रियः सुत इत्यर्थः । अर्थवशाद्विभक्तिविपरिणामः ॥
मत्वाथ नाथ शुचिजातिममुं विशाख-
मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।
एवंविधोऽप्यहमनन्यपरायणस्ते
 
१७९
 
कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६० ॥
 
हे नाथ, अथानन्तरं शुचिजातिं शुचेरमेः सकाशाजातिर्जन्म यस्य स तादृशस्तम् ।
उमया त्रैयम्बकं वीर्ये वोदुमक्षमयात्रौ तद्वीर्य क्षिप्तमित्यग्निभूः कुमार इति स्मृतिः ।
विशावं कुमारं मत्वास्मिन्कुमारे यदि मनो दृढप्रसादं बिभषि तर्हेवंविधोऽपि शुचि-
जातिः शुचिः पवित्रा अभ्यजन्मत्वाजातिर्यस्य सः । तथा विशाखो निःशाखोऽहमन-
न्यपरायणोऽनन्यगतिकः हे नाथ कस्मात्तवावलेपभूमिरवगणनास्पदमहं भवामि ॥
सर्वापहाररतिरुन्मदवक्रवक्र-
स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते ।
एवंविधोऽपि भगवन्गणनायकत्वे
 
कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१ ॥
 
हे भगवन्, सर्वस्य वस्तुनो यत्र कुत्रापि लब्धस्यापहारस्तत्र रतिः सुखं यस्य सः ।
तथोन्मदं सहर्ष वक्रं कुटिलं वक्रं यस्य स तादृक् । तथा कर्णाभ्यां चपलो मुहुर्मुहुः
कर्णतालकरः । तथा तुन्दिलो बृहजठरोऽयं गजमुखो गणपतिस्त्वया कस्माद्गणानां महा-
कालनन्दिप्रभृतीनां नायकत्वे नियुक्त आज्ञप्तः । 'सर्वापहारो गजास्यः' इत्यमरमाला ॥
हस्तं सदा वहति दानजलावसिक्तं
 
तेनैष चेदलभत प्रमथाधिपत्यम् ।
 
१. 'तेनैव' ख.
 
Digitized by Google