This page has been fully proofread once and needs a second look.

१७८
 
काव्यमाला ।
 
मार्गणौघं मार्गणानां याचकानामोघं समूहं पराङ्मुखं कृत्वा जहाति इति मत्वा

चेन्मां त्यजसि हे स्वामिन्, तादृगेव क्रूरः कर्कशः गुणस्य प्रत्यश्चाया ग्रहणकर्मणि योग्यं

मार्गणौघं शरसमूहं पराङ्मुखं त्यजन्पिनाकोऽजगवं धनुर्विशेषः करतले त्वया कथं धृतः ॥

 
कोटिं परामुपगतेऽपि गुणे नितान्तं
 

नम्रं विमृश्य यदि नाजगवं जहासि ।

स्वल्पे गुणेऽपि नतिमानतिमात्रमेव
 

किं तै[^१]तच्च येन न भवामि तवानुकम्प्यः ॥ १६ ॥
 

 
परां कोटिं धनुरग्रं संख्याविशेषं चोपगते गुणे प्रत्यञ्चायां दयादाक्षिण्यादौ च निता-

न्तमत्यन्तमेव नम्रं नतं विनीतं च विमृश्य हे स्वामिन्, अजगवं धनुर्विशेषं यदि न त्य-

जसि तदा स्वल्पे गुणे दयादाक्षिण्यादावण्प्यतिमात्रमत्यन्तं नतिमान् विनीतोऽस्मि । तच्च

किं भवति येन तव नानुकम्प्यो भवामि ॥
 

 
अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन
 

कृत्वा प्रवेशमतिमात्रमरुंतुदं माम् ।

मत्वा जहासि यदि नाथ किमर्थमेत-

देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ १७ ॥
 

 
अत्यन्तं तीक्ष्णं सरोषमतिकर्कशं कठोरहृदयमभिमुखे आर्जवेन सरलतया प्रवेशं

कृत्वा पश्चादतिमात्रमतिशयेनारुंतुदं मर्मव्यथाजनकं मां हे नाथ, यदि जहासि तर्फेह्येवं-

विधमतितीक्ष्णधारमतिकठोरमार्जवेनान्तःप्रवेशं कृत्वात्यन्त मर्मव्यथाजनकं हस्तगतं त्रि-

शूलमायुधविशेषं किं वहसि ॥
 

 
ज्ञात्वाथ चेत्समरसंहितकर्मयोग्यं
 

कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि ।

निःस्वं न किं समरसं हितकर्मयोग्यं
 

मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ १८ ॥

 
समरसंहितकर्मयोग्यं समरे युद्धे संहितं यत्कर्म तत्र योग्यम् । तथा समरसं तथा

हितकर्मयोग्यं च । तथा कोटित्रयोज्ज्वलमुखं कोटीनामग्राणां शिखापर्यायाणां त्रयेणो-

ज्ज्वलानि मुखान्यप्ग्राणि यस्य तत एवंविधं ज्ञात्वा त्रिशिखं त्रिशूलं चेद्विबिभर्षि तर्हि

हे विभो, मां निःस्वं विधनं समरसं सर्वत्र तुल्यरसं हितकर्मणि सर्वेषां योग्यं च किं न

वेत्सि । अपि तु वेत्स्येव । येन हेतुना मयि विषये प्रसादं न कुरुषे ॥
 

 
[^
]. 'नास्मि' ख.
 
Digitized by Google