This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१७७
 
हे महेश परमशिव, एतेन शेषनागेन पुरा पूर्वं जिह्वासहस्रयुगलेन । सहस्रशिरस्त्वा-

च्छेषस्य । यतस्त्वं स्तुतस्तेन हेतुना यदि तव कण्ठपीठेऽत्यन्तदुर्लमेभे स तिष्ठति तदा मे

मम तव नुतौ स्तुतावेकैव रसना जिह्वास्ति तेन हेतुना हे शंभो, भवदतिङ्घ्रितल एव मम

स्थानमस्तु । एवशब्दश्चार्थः ॥
 

 
शृङ्गी विवेकरहितः पशुरुन्मदोऽयं
 

मत्वेति चेत्परिहरस्यतिकातरं माम् ।

एवंविधोऽपि हृवृषभश्रणार्पणेन
 

नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ १३ ॥
 

 
हे महेश, शृङ्गी अत्यन्तगर्ववान् निर्विवेकः पशुः पशुप्राय उन्मदवाश्चायं मल्लक्षण इति

मत्वा चेदतिकातरमतिदीनं त्यजसि हे महेश, एवंविधोऽपि वृषभः शाक्रश्चरणार्पणेना-

नुग्रहभाजनत्वं प्रसादपात्रत्वं त्वया कथं नीतः ॥ एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् –

'अज्ञेऽपि पामरजनादरभाजनेऽपि मय्यातनोति करुणां गिरिशो दयालुः । हित्वा श

तानि गजराजहयोत्तमानामङ्गोगीचकार स जरद्गवमेव देवः ॥' इति । जरद्द्गृद्धो गौर्वृद्धो गौरृषभो
 

जरद्गवस्तम् ॥
 

 
पृष्ठे भवन्तमयमुद्वहते कदाचि-

देतावता यदि तवैति दयास्पदत्वम् ।

स्वामिन्नहं तु हृदयेऽन्वहमुद्हामि
 

त्वामित्यतः कथमहो न तवानुकम्प्यः ॥ ५४ ॥
 

 
हे महेश, अयं वृषभः कदाचिद्भवन्तमिच्छानुसारेण पृष्ठे निजपृष्ठे धारयते यत् ए

तावता हेतुना यदि स तव दयास्पदत्वं कृपापात्रतामेति तर्हि हे स्वामिन्, तुः पक्षा-

न्तरे । अहं तु हृदये स्वहृद्यन्वहं प्रतिक्षणं त्वामुद्वहामीत्यतो येतोः अहो आश्चर्ये कथं

न तवानुकम्पनीयोऽस्मि ॥ पूर्वोत्क्तवृत्तानामाशयानुसारेण ममापीदं वृत्तद्वयम् – 'दो-

षाकरः शिरसि कण्ठतले द्विजिह्वः शृङ्गी च यस्य वृषभोऽपि हि पादमूले । द्वारान्तिकं

कथमुपैमि हि भैरवस्य तस्य प्रभोविंर्विशरणः कृपणोऽतिसाधुः ॥ दोषाकरः सकुटिलो व

सतिथ्वश्च शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतरा भवतस्तदाहमे-

कोऽस्मि तादृगिह मां शिव किं त्यजेथाः ॥' इति ॥
 
२३
 

 
क्रूरः पराङ्मुखमसावनृजुर्जहाति

योग्यं गुणग्रहणकर्मणि मार्गणौघम् ।

मत्वेति चेत्त्यजसि मां कथमीदृगेव
 

स्वामिन्वृधृतः करतले भवता पिनाकः ॥ १९ ॥
 
Digitized by Google