This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१७७
 
हे महेश परमशिव, एतेन शेषनागेन पुरा पूर्व जिह्वासहस्रयुगलेन । सहस्रशिरस्त्वा-
च्छेषस्य । यतस्त्वं स्तुतस्तेन हेतुना यदि तव कण्ठपीठेऽत्यन्तदुर्लमे स तिष्ठति तदा मे
मम तव नुतौ स्तुतावेकैव रसना जिह्वास्ति तेन हेतुना हे शंभो, भवदतिल एव मम
स्थानमस्तु । एवशब्दश्चार्थः ॥
 
शृङ्गी विवेकरहितः पशुरुन्मदोऽयं
 
मत्वेति चेत्परिहरस्यतिकातरं माम् ।
एवंविधोऽपि हृषभश्वरणार्पणेन
 
नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ १३ ॥
 
हे महेश, शृङ्गी अत्यन्तगर्ववान् निर्विवेकः पशुः पशुप्राय उन्मदवायं मल्लक्षण इति
मत्वा चेदतिकातरमतिदीनं त्यजसि हे महेश, एवंविधोऽपि वृषभः शाक्करश्चरणार्पणेना-
नुग्रहभाजनत्वं प्रसादपात्रत्वं त्वया कथं नीतः ॥ एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् –
'अज्ञेऽपि पामरजनादरभाजनेऽपि मय्यातनोति करुणां गिरिशो दयालुः । हित्वा श
तानि गजराजहयोत्तमानामङ्गोचकार स जरद्गवमेव देवः ॥' इति । जरद्द्वृद्धो गौरृषभो
 
जरद्गवस्तम् ॥
 
पृष्ठे भवन्तमयमुहहते कदाचि-
देतावता यदि तवैति दयास्पदत्वम् ।
स्वामिन्नहं तु हृदयेऽन्वहमुद्रहामि
 
त्वामित्यतः कथमहो न तवानुकम्प्यः ॥ ५४ ॥
 
हे महेश, अयं वृषभः कदाचिद्भवन्तमिच्छानुसारेण पृष्ठे निजपृष्ठे धारयते यत् ए
तावता हेतुना यदि स तव दयास्पदत्वं कृपापात्रतामेति तर्हि हे स्वामिन, तुः पक्षा-
न्तरे । अहं तु हृदये स्वहृद्यन्वहं प्रतिक्षणं त्वामुद्वहामीत्यतो येतोः अहो आश्चर्ये कथं
न तवानुकम्पनीयोऽस्मि ॥ पूर्वोत्तवृत्तानामाशयानुसारेण ममापीदं वृत्तद्वयम् – 'दो-
षाकरः शिरसि कण्ठतले द्विजिह्वः शृङ्गी च यस्य वृषभोऽपि हि पादमूले । द्वारान्तिकं
कथमुपैमि हि भैरवस्य तस्य प्रभोविंशरणः कृपणोऽतिसाधुः ॥ दोषाकरः सकुटिलो व
सतिथ्व शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतरा भवतस्तदाहमे-
कोऽस्मि तादृगिह मां शिव किं त्यजेथाः ॥' इति ॥
 
२३
 
क्रूरः पराङ्मुखमसावनृजुर्जहाति
योग्यं गुणग्रहणकर्मणि मार्गणौघम् ।
मत्वेति चेत्त्यजसि मां कथमीहगेव
 
स्वामिन्वृतः करतले भवता पिनाकः ॥ १९ ॥
 
Digitized by Google