This page has been fully proofread once and needs a second look.

१७६
 
काव्यमाला ।
 
ऽग्निर्विश्वं जगत्पुष्णाति तेन हेतुना हे नाथ, दहनेऽग्नौ यदि सादरोऽसि । पूर्ववृत्तप्रस्तुतार्थ-

साम्येन समर्थयति – आप्यायनमिति । हे ईश, सुमनसां देवानां पण्डितानां चानिशं स-

दाप्यायनं जीवनं विधातुं यद्यर्थीभवामि तादृशः कोऽपि तावदन्यो नास्ति यो मन्मुखेन

तानाप्याययेत् । बन्धुजनस्य जोजीवनमाप्यायनं च कर्तुतुं स्वयमक्षमो विश्वं च जगत्सुहृन्मु-

खेन मित्रमुखेन पोषयितुमसमर्थोऽहम् । तेन हेतुना हे ईश, अत्र विषये पूर्वोक्ते मां नि-

रपराधमवेहि वेत्सि । प्रसादेन नैर्मल्येन विषदां दृष्टिममृतद्रवेण कृपामृतरसेनार्द्रारो देहि ।

दयापात्रं मां दीनं कातरं सदयं सकृपं भजस्व । केन । भ्रूविभ्रमेण भ्रुवोर्विभ्रमो विलासस्तेन

भ्रूविक्षेपेण । किं भूतेन । अदभ्रमदभ्रमेण अदभ्रो घनो मदेन हर्षेण भ्रमो यस्य स

तादृशेन । तिलकम् ॥
 

 

 
अन्वग्रहीरमलदृष्टिसमर्पणेन
 

मित्रं शुचिचिं द्विजपतितिं यदि युक्तमेतत् ।

एवंविधेऽपि भगवन्दृशमप्रसन्नां
 

धत्से मयीति विधिरेष पराङ्मुखो मे ॥ १० ॥
 

 
हे भगवञ्शंभो, त्वममलेन निर्मलेन दृष्टिसमर्पणेन दृष्टीनां समर्पणं तेन मित्रं सूर्
यं
शुचिममिग्निं द्विजपतिं नक्षत्रेशं चन्द्रं च यद्यन्वग्रहीरनुगृहीतवानसि तदेतद्युक्तम् । एवंवि

धेऽपि मित्रे सकलजनसुहृदि शुचौ पवित्रे निर्दोषे द्विजपतौ ब्राह्मणश्रेष्ठे चाप्रसन्नां क

लुषां दृष्टिं मयि दीने धत्स इति यत्तदेष विधिर्दैवं पराढ्युङ्मुखो मे ममास्ति । अभाग्यचातुरी

ममैषेत्यर्थः ॥
 

 
निष्कर्ण एष कुसृतिव्यसनी द्विजिहो
 
ह्वो
मत्वेऽति चेच्त्त्यजसि निःशरणं प्रभो माम् ।

एतादृशोऽपि पवनाशन एष कस्मा-

च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ११ ॥
 

 
हे प्रभो, निष्कर्ण: कुसृतिव्यसनयुक्तस्तथा द्विजिह्वोऽसत्यवादित्वात् । इति मत्वा मां

निःशरणं दीनं चेत्त्यजसि तदेतादृशोऽपि निष्कर्णश्चक्षुःश्रवत्वात् । कौ भूमौ सृतिः सरणं

तत्र व्यसनी द्विजिह्वश्चैष पवनाशनः सर्पो वासुकिः हे श्रीकण्ठ, भवता किं कण्ठपुलिने

कण्ठतटे गृहीतः ॥
 

 
जिह्वासहस्त्रयुगलेन पुरा स्तुतस्त्व-

मेतेन तेन यदि तिष्ठति कण्ठपीठे ।

एकैव मे तव नुतौ रसनास्ति तेन
 

स्थानं महेश भवदतिङ्घ्रितले ममास्तु ॥ १२ ॥
 
Digitized by Google