This page has not been fully proofread.

१७६
 
काव्यमाला ।
 
ऽग्निर्विश्वं जगत्पुष्णाति तेन हेतुना हे नाथ, दहनेऽनौ यदि सादरोऽसि । पूर्ववृत्तप्रस्तुतार्थ-
साम्येन समर्थयति – आप्यायनमिति । हे ईश, सुमनसां देवानां पण्डितानां चानिशं स-
दाप्यायनं जीवनं विधातुं यद्यर्थीभवामि तादृशः कोऽपि तावदन्यो नास्ति यो मन्मुखेन
तानाप्याययेत् । बन्धुजनस्य जोवनमाप्यायनं च कर्तु स्वयमक्षमो विश्वं च जगत्सुहन्मु-
खेन मित्रमुखेन पोषयितुमसमर्थोऽहम् । तेन हेतुना हे ईश, अत्र विषये पूर्वोक्ते मां नि-
रपराधमवेहि वेत्सि । प्रसादेन नैर्मल्येन विषदां दृष्टिममृतद्रवेण कृपामृतरसेनार्द्रा देहि ।
दयापात्रं मां दीनं कातरं सदयं सकृपं भजस्व । केन । भ्रूविभ्रमेण भ्रुवोर्विभ्रमो विलासस्तेन
भ्रूविक्षेपेण । किं भूतेन । अदभ्रमदभ्रमेण अदभ्रो घनो मदेन हर्षेण भ्रमो यस्य स
तादृशेन । तिलकम् ॥
 

 
अन्वग्रहीरमलदृष्टिसमर्पणेन
 
मित्रं शुचि द्विजपति यदि युक्तमेतत् ।
एवंविधेऽपि भगवन्दशमप्रसन्नां
 
धत्से मयीति विधिरेष पराङ्मुखो मे ॥ १० ॥
 
हे भगवञ्शंभो, त्वममलेन निर्मलेन दृष्टिसमर्पणेन दृष्टीनां समर्पणं तेन मित्रं सूर्य
शुचिममि द्विजपतिं नक्षत्रेशं चन्द्रं च यद्यन्वग्रहीरनुगृहीतवानसि तदेतद्युक्तम् । एवंवि
धेऽपि मित्रे सकलजनसुहृदि शुचौ पवित्रे निर्दोषे द्विजपतौ ब्राह्मणश्रेष्ठे चाप्रसन्नां क
लुषां दृष्टिं मयि दीने धत्स इति यत्तदेष विधिदैवं पराढ्युखो मे ममास्ति । अभाग्यचातुरी
ममैषेत्यर्थः ॥
 
निष्कर्ण एष कुसृतिव्यसनी द्विजिहो
 
मत्वेऽति चेच्यजसि निःशरणं प्रभो माम् ।
एतादृशोऽपि पवनाशन एष कस्मा-
च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ११ ॥
 
हे प्रभो, निष्कर्ण: कुसृतिव्यसनयुक्तस्तथा द्विजिह्वोऽसत्यवादित्वात् । इति मत्वा मां
निःशरणं दीनं चेयजसि तदेतादृशोऽपि निष्कर्णश्चक्षुःश्रवत्वात् । कौ भूमौ सृतिः सरणं
तत्र व्यसनी द्विजिह्वश्चैष पवनाशनः सर्पो वासुकिः हे श्रीकण्ठ, भवता किं कण्ठपुलिने
कण्ठतटे गृहीतः ॥
 
जिह्वासहस्त्रयुगलेन पुरा स्तुतस्त्व-
मेतेन तेन यदि तिष्ठति कण्ठपीठे ।
एकैव मे तव नुतौ रसनास्ति तेन
 
स्थानं महेश भवदतिले ममास्तु ॥ १२ ॥
 
Digitized by Google