This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
अत्यूष्मलं मलिनमार्गमनेकजिह्वं

स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् ।

एतादृशोऽपि शुभदृष्टिनिवेशनस्य
 
१७५
 

पात्रीकृतः कथमयं भवताश्रयाशः ॥ ४६ ॥
 

 
हे विभो, अत्यूष्मलमतिशयेन संतापकरं सगर्वम् । तथा मलिनः पापो मार्गों वर्त्म
गो वर्त्म
यस्य स तादृशम् । तथानेका जिह्वाः क्षणं क्षणमसत्यवादितया यस्य स तादृशम् । तथा

स्पर्शेऽप्यनर्हमयोग्यमवधार्य निश्चित्य चेन्मां जहासि तर्फेह्येतादृशोऽपि अत्यूष्मलोऽतिसं-

तापवान् मलिनमार्गः कृष्णवर्त्मा अनेकजिह्वः सप्तजिह्वः स्पर्शेऽप्यनर्होऽयमाश्रयाशो हु

ताश: शुभा दृष्टिस्तृतीयलोचनं सपक्षपातावलोकनं च तस्यां निवेशनं स्थापनं तस्य कथं

त्वया पात्रीकृतः । आश्रयाश इति पदं साभिप्रायम् । आश्रयमेव निजमश्नातीति ॥

 
यद्न्धुजीवदलसद्रुचिरर्थिभाव-

मायाति साधु विबुधव्रजजीवनाय ।

यन्मित्रमण्डलमुखेन च विश्वमेष
 

पुष्णाति तेन दहने यदि सादरोऽपि ॥ १७ ॥

 
आप्यायनं सुमनसामनिशं विधातु-

मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता ।

कर्तुं च बन्धुजनजीवनमक्षमोऽहं
 

विश्वं च पोषयितुमीष सुहन्मु[^१]खेन ॥ ४८ ॥

 
तेनात्र मां निरपराधमवेहि देहि
 

दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् ।

दीनं दयास्पदमदभ्रमदभ्रमेण
 

भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ १९ ॥ (तिलेकम् )
 
[^२]
 
बन्धुजीवाख्यानि लोहितपुष्पाणि तेषां दलानि तद्वत्सती शोभना रुचिर्यस्य सः ।

तथा बन्धूनां बान्धवानां जीवं ददाति या तादृशी लसन्ती रुचिर्यस्य स तादृशश्च साधु

कृत्वा एषोऽग्निर्विबुधानां देवानां ब्व्रजः समूहस्तस्य जीवनायाप्यायनाय यदर्थिभावं सा-

ज्याद्याहुतिप्रार्थकत्वमायाति तथा विबुधानां विदुषां च व्रजस्तेषां जीवनायार्थिभावमा -

याति । तथा मित्रस्य सूर्यस्य मण्डलं बिम्बं तन्मुखेन दिनान्ते । 'रात्रौ सावित्रं तेजो-

ऽग्नौ प्रविशति' इति स्मृति: । तथा मित्राणां सुहृदां मण्डलं समूहस्तन्मुखेन । यच्चैषो-

 
[^
]. 'मुखेषु' ख.
[^
]. 'संदानितकम्' ख.
 
Digitized by Google