This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
अत्यूष्मलं मलिनमार्गमनेकजिह्वं
स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् ।
एतादृशोऽपि शुभढष्टिनिवेशनस्य
 
१७५
 
पात्रीकृतः कथमयं भवताश्रयाशः ॥ ४६ ॥
 
हे विभो, अत्यूष्मलमतिशयेन संतापकरं सगर्वम् । तथा मलिनः पापो मार्गों वर्त्म
यस्य स तादृशम् । तथानेका जिह्वाः क्षणं क्षणमसत्यवादितया यस्य स तादृशम् । तथा
स्पर्शेऽप्यनईमयोग्यमवधार्य निश्चित्य चेन्मां जहासि तर्फेतादृशोऽपि अत्यूष्मलोऽतिसं-
तापवान् मलिनमार्गः कृष्णवर्मा अनेकजिह्वः सप्तजिह्वः स्पर्शेऽप्यनर्होऽयमाश्रयाशो हु
ताश: शुभा दृष्टिस्तृतीयलोचनं सपक्षपातावलोकनं च तस्यां निवेशनं स्थापनं तस्य कथं
त्वया पात्रीकृतः । आश्रयाश इति पदं साभिप्रायम् । आश्रयमेव निजमश्नातीति ॥
यद्वन्धुजीवदलसचिरर्थिभाव-
मायाति साधु विबुधवजजीवनाय ।
यन्मित्रमण्डलमुखेन च विश्वमेष
 
पुष्णाति तेन दहने यदि सादरोऽपि ॥ १७ ॥
आप्यायनं सुमनसामनिशं विधातु-
मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता ।
कर्तुं च बन्धुजनजीवनमक्षमोऽहं
 
विश्वं च पोषयितुमीष सुहन्मुखेन ॥ ४८ ॥
तेनात्र मां निरपराधमवेहि देहि
 
दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् ।
दीनं दयास्पदमदभ्रमदभ्रमेण
 
भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ १९ ॥ (तिलेकम् )
 
बन्धुजीवाख्यानि लोहितपुष्पाणि तेषां दलानि तद्वत्सती शोभना रुचिर्यस्य सः ।
तथा बन्धूनां बान्धवानां जीवं ददाति या तादृशी लसन्ती रुचिर्यस्य स तादृशश्च साधु
कृत्वा एषोऽग्निर्विबुधानां देवानां ब्रजः समूहस्तस्य जीवनायाप्यायनाय यदर्थिभावं सा-
ज्याद्याहुतिप्रार्थकत्वमायाति तथा विबुधानां विदुषां च व्रजस्तेषां जीवनायार्थिभावमा -
याति । तथा मित्रस्य सूर्यस्य मण्डलं बिम्बं तन्मुखेन दिनान्ते । 'रात्रौ सावित्रं तेजो-
ऽग्नौ प्रविशति' इति स्मृति: । तथा मित्राणां सुहृदां मण्डलं समूहस्तन्मुखेन । यच्चैषो-
१. 'मुखेषु' ख. २. 'संदानितकम्' ख.
 
Digitized by Google