This page has been fully proofread once and needs a second look.


 
काव्यमाला ।
 
तस्य लाभः । तदर्थे याचिताः । निजेष्टदेवताध्यानेन । 'पश्चिमाद्यामिनीयामात्प्रसाद-

मिव चेतना' इति कालिदासः । तेन श्लाघ्या यथावर्ण्यमानरसोपयोग्या वर्णा अक्षराणि

यस्यां तादृशी चासौ विशदा निर्मला च । विशदशब्दो मध्यस्थतालव्य एव ज्ञेयः ।

अथवा वरलाभस्य याचितं याचनं तेन श्लाघ्या ये वर्णा अक्षराणीति विग्रहः । अ-

थवा 'हंसस्य योषिद्वरटा वरलापि' इति स्वामी । त्व्रियते हंसैर्वरला । यथा वरला हंसी

मानसाख्यं सरो विशति । किंभूतं सरः । सत्त्वधाम । सत्त्वानां मकरादिप्राणिनां धाम

स्थानम् । हंसी किंभूता। आभया दीप्त्या आचितः पूरितः अत एव श्लाघ्यः स्तुत्य

श्वासौ यो वर्णः श्वैत्यगुणः । 'आचितं निचितं पूर्णं पूरितं भरितं भृतम्' इति कोषः ।

तेन विशदा । पुनः किंभूता । सघनेति । घनस्य मेघस्य कालो वर्षासमयः स एव वि

प्लवः सह तेन वर्तते या सा सघनकालविप्लवा । मे सरस्वतीत्यनेन सूचितमेतत् वक्ष्य-

माणस्तुतिकुसुमाञ्जलिरूपा स्तुतिर्यमभयनिवारणार्थमेव मया कृता । यदग्रे स्वयमेव

वक्ष्यति —'क्रन्दन्तमन्तकभयार्तमुपेक्षसे यत्' इत्यादिना सर्वत्र ॥
 

 
भक्तितः सपदि सर्वमङ्गला बोधिता निजधिंधियैव मेनया ।
 

आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥ ५ ॥
 

 
भक्तित इति । इयं मे सरस्वती वाणी ईश्वरमारिराधयिषति आराधयितुमिच्छति ।

किं कर्तुम् । ईप्सितमभिलषितं वरं लब्धुम् । किंभूता । कायवाङ्मनोभिः शिवैकता-

ध्यानात्सर्वाणि मङ्गलानि यस्याः । वाणीपक्षे मेनया इत्यत्र मे अनया इति पदच्छेदः ।

अनया मे निजधिया बुद्ध्या नित्यधिया वा बोधिता प्रबोधिता । अथ च सर्वमङ्गला

पार्वती च वरं भर्तारमीश्वरमाराधयति । 'धवः प्रियः पतिर्भर्ता सेक्ता वरयिता वरः'

इति मङ्गःखः । किं कर्तुम् । ईप्सितं लब्धुम् । कीदृशी । मेनया मेनाख्यया निजमात्रा

बोधिता प्रबोधिता । कया हेतुभूतया । निजधिया । कुतः । भक्तितः । यथा सर्वमङ्गला

पार्वती ईप्सितं मनोरथेन प्रार्थितमीश्वरमेव वरं भर्तारं लब्धुमाराधितवती । भक्तितः

भक्त्या हेतुना । तसिलः सार्वविभक्तिकत्वात् । तथा मदीया सरस्वत्यपि ईश्वरमारिराध-

यिषति । एतेन स्वात्मनेऽवश्यमीश्वरदर्शनं स्तुतिकरणेन सूचितं ग्रन्थकारेण । यथा

पार्वत्या परमेश्वरो वरो लब्ध एव तथेयमपि सरस्वती प्राप्स्यत्येवेति भावः ॥
 

 

 
अथातः स्तुतिप्रस्तावनाख्यं प्रथमं स्तोत्रमारभमाण आह -

 
ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फित समस्तवाङ्मयम् ।
 

दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥ ६ ॥
 

 

 
ओमितीति । वयं तन्महः परं ज्योतिरुपास्महे सेवामः । तत्कभू॒किंभूतम् । सत्सत्तामात्रं

सत्यं सनातनं च । तथा अक्षरं न क्षरति स्वरूपात्प्रचलतीत्यक्षरम् । अत्र उपासे इ
ति
वाच्यमाने अतिगाढभक्त्युद्रेकेण तदेकताभावनोत्कर्षेण श्लाघ्यमात्मानं मन्यमानेन कविना

उपास्महे इति बहुवचनक्रियापदोद्देशः कृतः । एवमप्ग्रेऽपि । तत्किमित्याह - ओमि
 
Digitized by Google
 
-