This page has been fully proofread once and needs a second look.

१७४
 
काव्यमाला ।
 
एवंविधोऽपि भवता कथमडिङ्घ्रिपीठ-

प्रान्तेऽपि धर्तु[^१]मुचितो न समर्थितोऽहम् ॥ ४३ ॥
 

 
हे नाथ, शान्ता अतिशीतलांशुत्वादाकृतिर्यस्य स तादृशः । तथा द्विजानां नक्षत्राणां

पतिः । तथा कलङ्केन मुक्तः । एककलात्वात् । अत एव विमलः स्वच्छः । किल नि

श्ये । अयं चन्द्र इति चेन्मूर्ध्नि शिरसि विभुंधुं विभर्षि । एवंविधोऽपि यथा - शान्ता श

मदमादियुक्ता आकृतिर्यस्य तथा द्विजानामग्न्यजन्मनां पतिः । तथा कलङ्केनाकुलीन-

त्वदुःशीलवादिना मुक्तः । अत एव विमलो निष्पापोऽहम् । तिष्ठतु तावच्छिरसि धार

णमङ्घ्रिपीठप्रान्तेऽपि पादपीठप्रान्ते धर्तेतुं समुचितः सन् किं न भवता प्रभुणा समर्थितः

सादरीकृतः ॥
 

 
पापग्रहो धृतिमुपैति विना परेषां
 

न स्वापहारमयमित्यथ मां जहासि ।

एवंविधोऽपि तव दक्षिणदृष्टिपात-

पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४ ॥
 

 
हे ईश्वर परमेश्वर, अथानन्तरं पापे ग्रहो हेवाको यस्य स पापग्रहोऽयं मल्लक्षणः परेषां

जनानां स्वापहारं स्वस्य धनस्यापहारोऽपहरणं विना धृतिं धैर्यं नैति न लभते इति है-

त्
तोर्मोमां चेत्त्यजसि एवंविधोऽपि रुचिमान्सूर्यः पापग्रहोऽनिष्टफलदायी ग्रहः । क्षीणे-

न्द्वर्कयमाराः पापाः' इति संहिताविदः । तथापरेषां जनानां स्वापस्य निद्राया हारो ह

रणं तं विना धृतिं स्थैर्येयं न लभते ईदृशोऽपि भास्वांस्तव विभोर्दक्षिणा या दृष्टिर्लों-

चनं तत्र पातो दर्शनं पक्षपातः स्नेहश्च तत्पात्रत्वं कथमुपेतो गतः । अत्रापि शब्दश्लेषः

पूर्वत्र च ॥
 

 
मित्रत्वमेष भवतो गुणिबन्धुतां च
 

प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् ।

दासत्वमेव तव नित्यमुपेत्य भूत्वा
 

सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५ ॥
 

 
हे नाथ, भवतस्तव मित्रत्वं मेद्यति स्नेहयति भूमिमिं मित्रः सूर्यस्तत्त्वं सखित्वं च

तथा गुणाः सूक्ष्मतन्तवो विद्यन्ते येषां ते गुणिनः पद्मास्तेषां बान्धवः । विकासकत्वात् ।

तथा गुणिनां दयादाक्षिण्यादिगुणयुक्तानां बन्धुस्तद्भावं च प्रख्याप्य प्रकाश्य यद्येष रु-

चिमान्सूर्यस्तव विभोर्वल्लभत्वं प्रियत्वमुपगतस्तहिंर्हि तत्र नित्यं दासत्वं दीयतेऽस्मै स्वामिना

सर्वे यथाभिलषितमिति दासस्तस्य भावस्तत्वमुपेत्य प्राप्य गुणिनां विदुषां सेवापरश्च

भूत्वाहं कथं तवाप्रियोऽवल्लभोऽस्मि ॥
 

 
[^
]. 'उचितं' ख.
 
Digitized by Google