This page has not been fully proofread.

१७४
 
काव्यमाला ।
 
एवंविधोऽपि भवता कथमडिपीठ-
प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥ ४३ ॥
 
हे नाथ, शान्ता अतिशीतलांशुत्वादाकृतिर्यस्य स तादृशः । तथा द्विजानां नक्षत्राणां
पतिः । तथा कलङ्केन मुक्तः । एककलात्वात् । अत एव विमलः स्वच्छः । किल नि
श्वये । अयं चन्द्र इति चेन्मूर्ध्नि शिरसि विभुं विभषि । एवंविधोऽपि यथा - शान्ता श
मदमादियुक्ता आकृतिर्यस्य तथा द्विजानामन्यजन्मनां पतिः । तथा कलङ्केनाकुलीन-
त्वदुःशीलवादिना मुक्तः । अत एव विमलो निष्पापोऽहम् । तिष्ठतु तावच्छिरसि धार
णमङ्घ्रिपीठप्रान्तेऽपि पादपीठप्रान्ते धर्ते समुचितः सन् किं न भवता प्रभुणा समर्थितः
सादरीकृतः ॥
 
पापग्रहो धृतिमुपैति विना परेषां
 
न स्वापहारमयमित्यथ मां जहासि ।
एवंविधोऽपि तव दक्षिणदृष्टिपात-
पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४ ॥
 
हे ईश्वर परमेश्वर, अथानन्तरं पापे ग्रहो हेवाको यस्य स पापग्रहोऽयं मल्लक्षणः परेषां
जनानां स्वापहारं स्वस्य धनस्यापहारोऽपहरणं विना धृतिं धैर्य नैति न लभते इति है-
तोर्मो चेत्त्यजसि एवंविधोऽपि रुचिमान्सूर्यः पापग्रहोऽनिष्टफलदायी ग्रहः । क्षीणे-
न्द्वर्कयमाराः पापाः' इति संहिताविदः । तथापरेषां जनानां स्वापस्य निद्राया हारो ह
रणं तं विना धृतिं स्थैर्ये न लभते ईदृशोऽपि भास्वांस्तव विभोर्दक्षिणा या दृष्टिलों-
चनं तत्र पातो दर्शनं पक्षपातः स्नेहश्च तत्पात्रत्वं कथमुपेतो गतः । अत्रापि शब्दश्लेषः
पूर्वत्र च ॥
 
मित्रत्वमेष भवतो गुणिबन्धुतां च
 
प्रख्याप्य चेदुपगतस्तव वडभत्वम् ।
दासत्वमेव तव नित्यमुपेत्य भूत्वा
 
सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५ ॥
 
हे नाथ, भवतस्तव मित्रत्वं मेद्यति स्नेहयति भूमि मित्रः सूर्यस्तत्त्वं सखित्वं च
तथा गुणाः सूक्ष्मतन्तवो विद्यन्ते येषां ते गुणिनः पद्मास्तेषां बान्धवः । विकासकत्वात् ।
तथा गुणिनां दयादाक्षिण्यादिगुणयुक्तानां बन्धुस्तद्भावं च प्रख्याप्य प्रकाश्य यद्येष रु-
चिमान्सूर्यस्तव विभोर्वल्लभत्वं प्रियत्वमुपगतस्तहिं तत्र नित्यं दासत्वं दीयतेऽस्मै स्वामिना
सर्वे यथाभिलषितमिति दासस्तस्य भावस्तत्वमुपेत्य प्राप्य गुणिनां विदुषां सेवापरश्च
भूत्वाहं कथं तवाप्रियोऽवल्लभोऽस्मि ॥
 
१. 'उचितं' ख.
 
Digitized by Google