This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
किं तूद्धरामि भवदग्रपदावमर्श-
मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ ४१ ॥ (तिलकम्)
 
हे नाथ, निजं स्वकीयं यत्पदं सद्भिः सहनीयं तस्मायतोऽयं जडप्रकृतिर्दुष्टात्मा च-
पलश्चलस्वभावः कुमार्गाब्शिवशासनव्यतिरिक्तानत्यन्तकुत्सितमार्गान्भूरीन्बहून्भ्रमिष्य-
तीति मत्वा चेन्मां त्यजसि तहगेवायं निजपदात्सत्यलोकाच्युतश्चपलो लोलो जडप्र-
कृतिः । लडयोरैक्याजडप्रकृतिः । कुमार्गान्कोभूमेर्मार्गास्तान्भ्रमति । अत एवेगेवार्य
गाङ्गस्त्रिस्रोतःसंबन्धी प्रवाहो मूर्ध्नि शिरसि त्वया किमिति घृत इति शिवैकताध्यानाद-
त्यन्तपरिचितमात्मानं मन्यमानस्य कवेरुक्तिः । शब्दश्लेषोऽलंकारः ॥ किल निश्चये
मूर्ध्ना शिरसा धृतश्चेत्तदायं गाङ्ग ओघो नारकिणां नरको विद्यते येषां ते नारकिणः पात-
किनस्तेषामार्ति हन्ता दूरोकर्तेति हेतोर्हे नाथ, त्वं चेद्गाङ्गमोघं शिरसि वहसे धारयसि
तदा घना या घृणा दया सैवामृतं रसायनं तत्सागरस्य तथा नाथजनस्याशरणजनस्या-
तिभने हेवाकिनो व्यसनिनस्तव विभोरेतदुचितमेव । 'स्यान्नारकस्तु नरकः' इत्यमरः ।
'धृतश्चेन्मूर्ध्ना मया' इति पाठे पौनरुक्त्याशङ्का । तुः पक्षान्तरे । अस्मादृशस्य भक्तजन-
स्थेयं रसना जिह्वा इतीरयन्ती सहस्रधा गच्छेत्खण्डशो गच्छतु । इति किमिति । तव
शीर्ष शिरोऽवाप्यापरिमितजन्मपरम्परोपार्जितसुकृत परीपाकेण प्राप्याहं सुखं तिष्ठामि ।
गङ्गावदित्यध्याहारः । स्वाभिमतमाह - किं लित्यादि । किं तु पक्षान्तरे । भवच्छोर्ष-
प्राप्तिमनोरथस्य कैत्र कथा । भवदीयचरणाग्रस्पर्शमात्रादपि यद्यहं चरणाप्रमात्रस्पर्शमपि
कदाचिल्लभेय तदा त्रिजगत त्रैलोक्यमपि क्षणादुद्धरामीति मे प्रतिज्ञा । नारकिणामुद्ध-
रणे तु कैव कथेति भावः ॥
 
i
 
-
 
क्षामो निकामजडिमा कुटिलः कलावा-
न्दोषाकरोऽयमिति चेयजसि प्रभो माम् ।
एतादृशैरुपगतोऽपि समस्तदोषैः
 
१७३
 
कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ ४२ ॥
 
हे नाथ, अयं क्षामोऽत्यन्तकृशः निकामं नितरां जडिमा मौर्य यस्य स तादृक् कु-
टिलः कुटिलाशयः कलावान्परवञ्चनचातुर्ययुक्तः । तथा दोषाणां परद्रव्यहरणपरहिंसादो-
नामाकर उत्पत्तिस्थान मिति हेतोन्मां त्यजसि तर्फेतादृशैरव क्षामत्वादिमिरुपगत-
श्चन्द्रः । चन्द्रपक्षे क्षामः कृशः । एककलात्वात् । निकामजडिमात्यन्तशीतांशुः । क-
लावान् । पूर्वोक्तहेतोः । दोषां रात्रि करोतीति दोषाकरः । अत एवैतादृशोऽपि शशा-
कस्त्वया कस्माच्छिरसि धृतः ॥
 
शान्ता कृतिद्विजपतिर्विमलः कलङ्क-
मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि ।
 
१. 'संदानितकम्' ख.
 
Digitized by Google