This page has been fully proofread once and needs a second look.

१७२
 
काव्यमाला ।
 
पापः खलोऽयमिति नार्हसि मा विहातुं

किं रक्षया कृतमतेरकुतोभयस्य ।

यस्मादसाघुरघधुरधमोहमपुण्यकर्मा
 

तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७ ॥
 

 
अयं खलः पिशुनः पापः पापीयानिति हेतोर्मामां वराकं विहातुं नार्हसि । अत्र हेतु-

माह–कृतमतेः प्राज्ञस्याकुतोभयस्य कुतोऽपि भयरहितस्य रक्षया पालनेन किम् ।

एतदेव पुनरपि समर्थयति — अहं त्वसाधुरसज्जनः अधमो नीच: अपुण्यकर्नामा पाफीपी यतो-

ऽस्मि तस्मात्तत्र दयालोः सुतरामनुकम्पनीयोऽस्मि ॥
 

 
स्वैरेव यद्यपि गतोऽहमघः कुकृत्यै-

स्तत्रापि नाथ न तवास्म्यवलेपपात्रम् ।

दृ
प्तः पशुः पतति यः स्वयमन्धकूपे
 

नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८ ॥
 

 
हे नाथ शंभो, अहं पापी कुकृत्यैरतिकुत्सितकर्मभिर्यद्यप्यधोगतोऽस्मि अधोगतिं

प्राप्तोऽस्मि तथापि तव विभोर्दयालोरवलेपपात्रमवगणनापात्रं नास्मि । दृष्टं चैतत् - यः

पशुर्वर्करा दिर्दृप्तस्तारुण्यमदेन सवर्गः स्वयमेवान्धकूपे सान्धतमसान्धौ पतति । हि नि-

श्चये । तमपि पशुं कारुणिकोऽत्यन्तदयालुर्लोको नोपेक्षते नावगणयति । तं तादृशं मग्नं

दृष्ट्वा ततो यत्नेनोद्धरतीत्यर्थः ॥
 

 
अत्युन्नतान्निजपदाञ्च्चपलश्र्व्युतोऽयं

भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् ।
 

त्वेति चेत्त्यजसि मामयमीदृगेव
 

गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९ ॥

 
[^१]
हन्ताय मार्तिमपि नारकिणां धृतश्चे-

न्मूर्ध्ना [^२]किलेति वहसे यदि गाङ्गमोघम् ।

एतत्तवोचितमनाथजनार्तिभङ्ग-

हेवाकिनो घनघृणामृतसागरस्य ॥ ४० ॥

 
अस्मादृशस्य रसना तु सहस्त्रधेयं

गच्छेदवाप्य तव शीर्षमितीरयन्ती ।
 

 
[^
]. 'हर्ता' ख.
[^
]. 'मयेति' ख.
 
Digitized by Google