This page has not been fully proofread.

१७२
 
काव्यमाला ।
 
पापः खलोऽयमिति नार्हसि मा विहातुं
किं रक्षया कृतमतेरकुतोभयस्य ।
यस्मादसाघुरघमोहमपुण्यकर्मा
 
तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७ ॥
 
अयं खलः पिशुनः पापः पापीयानिति हेतोर्मा वराकं विहातुं नार्हसि । अत्र हेतु-
माह–कृतमतेः प्राज्ञस्याकुतोभयस्य कुतोऽपि भयरहितस्य रक्षया पालनेन किम् ।
एतदेव पुनरपि समर्थयति — अहं त्वसाधुरसज्जनः अ नीच: अपुण्यकर्ना पाफी यतो-
ऽस्मि तस्मात्तत्र दयालोः सुतरामनुकम्पनीयोऽस्मि ॥
 
स्वैरेव यद्यपि गतोऽहमघः कुकृत्यै-
स्तत्रापि नाथ न तवास्म्यवलेपपात्रम् ।
हप्तः पशुः पतति यः स्वयमन्धकूपे
 
नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८ ॥
 
हे नाथ शंभो, अहं पापी कुकृत्यैरतिकुत्सितकर्मभिर्यद्यप्यधोगतोऽस्मि अधोगतिं
प्राप्तोऽस्मि तथापि तव विभोर्दयालोरवलेपपात्रमवगणनापात्रं नास्मि । दृष्टं चैतत् - यः
पशुर्वर्करा दिर्दृप्तस्तारुण्यमदेन सवर्गः स्वयमेवान्धकूपे सान्धतमसान्धौ पतति । हि नि-
श्चये । तमपि पशुं कारुणिकोऽत्यन्तदयालुर्लोको नोपेक्षते नावगणयति । तं तादृशं मनं
दृष्ट्वा ततो यत्नेनोद्धरतीत्यर्थः ॥
 
अत्युन्नतान्निजपदाञ्चपलव्युतोऽयं
भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् ।
 
मत्वेति चेत्त्यजसि मामयमीदृगेव
 
गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९ ॥
हन्ताय मार्तिमपि नारकिणां धृतश्चे-
न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् ।
एतत्तवोचितमनाथजनार्तिभङ्ग-
हेवाकिनो घनघृणामृतसागरस्य ॥ ४० ॥
अस्मादृशस्य रसना तु सहस्त्रधेयं
गच्छेदवाप्य तव शीर्षमितीरयन्ती ।
 
१. 'हर्ता' ख. २. 'मयेति' ख.
 
Digitized by Google