This page has not been fully proofread.

१७०
 
काव्यमाला ।
 
शब्देऽथानुशयों दीर्घद्वेषानुतापयोः' इति शाश्वतः । एवं नो चेत्स्यात्कथं तर्हि कुलगुणा-
दिभिः पवित्रमप्येतन्मम नृजन्म मनुष्यजन्म निष्फलं कथं जातम् । कतिपयफल मिति
शेषः । त्वद्भक्तिरसग्रहे तु तस्य सर्वथा साफल्यमेवेति भावः ॥
मानुष्यनावमेधिगम्य चिरादवाप्य
 
निस्तारकं च करुणाभरणं भवन्तम् ।
यस्याभवद्भरवशस्तरितुं भवाब्धि
 
सोऽहं ब्रुडामि यदि कस्य विडम्बनेयम् ॥ ३२ ॥
हे विभो, चिरात्प्राचीनानेकजन्मान्तरं मानुषस्य भावो मानुष्यं मनुष्यजन्मैव नौस्त-
रणिस्तामधिगम्य लब्ध्वा तथा चिरात्प्राक्तनानेक जन्मपरम्परोपार्जितसुकृतपरिपाकेन
करुणाभरणं कृपालंकरणं भवन्तं त्वादृशं निस्तारकम् । अपार भवार्णवादिति शेषः ।
एवंभूतं विभुं प्राप्य यस्य मम भवाब्धि संसाराब्धि तरितुं भरवशो महान्प्रत्ययः ।
'भरोसा' इति भाषया । अभूत् स एवाहं यदि तत्रैव भवाम्बुधौ ब्रुडामि मजामि तर्होयं
विडम्बनालोकोपहासः कस्य भवति । अर्थात्तवैव ॥
 
स्वामी प्रसादमुपकारिषु सेवकेषु
 
योग्येषु साधुषु करोति किमत्र चित्रम् ।
सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं
 
चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३ ॥
स्वामी विभुरुपकारिषु वाङ्मनःकायकर्मभिनित्यमुपासनारूपोपकारकर्टषु सेवकेषु नि-
तान्तमेव सेवापरेषु योग्येषु कुलाचारशीलादिगुणैरलंकृतेषु साधुषु विनीतेषु भक्तजनेषु
यदि प्रसादं करोति अत्र विषये किं चित्रम् । न किंचिदित्यर्थः । तुः पक्षान्तरे । सन्तः
सहृदया अभाजनजनेष्त्रपात्रेष्वपि निष्कारणं कृपामृतसारेण सिक्तं चित्तं वहन्ति । अ
पात्रेष्वपि निर्हेतु दयां विदधतीत्यर्थः ॥ एतद्वृत्तानुसारेण मदीयमपि वृत्तमेकम् – 'भव-
दङ्घ्रिसरोजसेविनि प्रकटं चेत्तनुरेव ते कृपा । यदि नाथ तदास्थताश्रिते मयि दृश्येत
तदैव ते कृपा (?) ॥' इति ॥
 
तस्मात्समाप्तसकलाभ्युदयाभ्युपाय-
मायस्तचेतसमसंभवभग्नवृत्तम् ।
सीद्न्तमन्तकभयादभयार्पणेन
 
संभावय स्वयमनर्थकदर्शितं माम् ॥ ३४ ॥
तस्माद्धेतोः समाप्ताः समाप्तिं गता अविद्यमानाः सकला अभ्युदयाभ्युपाया उदयो-
१. 'अधिरुह्य' क.
 
Digitized by Google