This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
स्वेच्छया स्वातन्त्र्येण विकल्पितं निर्मितम् । तथा न दृष्टो विशिष्टपाकः प्रौढत्व

रूपो येन तत् । तथा मात्रया इदमियदेव वाच्यमिति परिमाणेन विहीनम् । प्रलापरूप-

मित्यर्थः । तथा आर्यजनः पूज्यतमलोकस्तेनाजुष्टमसेवितमिदं मम वचनं भवति अथा-

प्येवमपि सति इदं मम वचनं विषमयस्य विषप्रकृतेर्भवामयस्य भवरोगस्य भेषजमौषधं

भवति । सुखस्यापि परिणामदुःखत्वाद्विषमयस्येत्यर्थः । यद्यपि मम वचनमुन्मत्तजल्पि-

तमिवासमञ्जसं तथापि श्रीशिवभक्तिरसामृतमयत्वात्कस्यापि भक्तजनस्य भवरोगौषधं

भवतीत्यर्थः ॥
 

 
भालानलं तव यथा मुकुटस्थितैव
 

शक्नोति नो शमयितुं [^१]किल सिद्धसिन्धुः ।

तद्वज्ज्वलन्तमनिशं हृदि शोकवह्नि
 
वक्
निं
वक्त्
रे वसन्त्यपि ममात्र सरस्वतीयम् ॥ २९ ॥
 

 
हे स्वामिन्, तव मुकुटस्थितैव सिद्धसिन्धुर्गङ्गा तव भालानलं ललाटस्थितनेत्रामिं
ग्निं
शमयितुं यथा न शक्नोति न क्षमते। किल निश्चये । तद्वत्तथा दिवानिशं मम हृदि ज्व-

लन्तं शोकवह्निं जरामरणचिन्ताजनितदुःखाग्निं शमयितुं अत्र वफेक्त्रेऽपि मुखेऽपि वसन्तोयं

मम सरस्वती वाण्येव सरस्वती नदी न शक्नोति । त्वत्कृपां विनेति शेषः ॥

 
प्राक्चेन्मया विहितमाविलमेव कर्म

स्वामिन्कुतस्त्वयि ममैष दृढोऽनुरागः ।

एकान्तशुक्लमथ चेदतिदुःसहोऽयं
 

शोकानलो हृदयदाहकरः किमन्तः ॥ ३० ॥
 

 
हे स्वामिन्, प्राग्जन्मनि मया आविलं कलुषमेव कर्म चेद्यदि विहितं कृतं तदा एष

दृढोऽनुरागो भक्तिरसग्रहस्त्वयि विषये कुतो मम स्यात् । अथानन्तरं यदि मया कर्म

शुक्लमेव कृतं तर्हि हृदयदाहकरो ममान्तर्दाहकरोऽतिशयेन दुःसहो जरामरणशोकाभिग्नि-

रन्तः किं स्यात् ॥
 

 
क्वाप्यन्यजन्मनि विधाय विभोरवश्य-

माराधनामनुशयालु मनो ममाभूत् ।

नो चेत्कथं कुलगुणादिपवित्रमेत-

त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ ३१ ॥
 

 
हे स्वामिन्, कापि प्राग्जन्मनि विभोः श्रीशंभोराराधनां वाङ्नः कर्मभिः श्रीशि
बहा

षभट्टा
रकोपासां कृत्वापि मम मनोऽवश्यमेवानुशयालु सपश्चात्तापमभूदिति जाने। 'रन्ध्रे
 

 
[^
]. 'शिव' स्व.
२२
 
Digitized by Google