This page has not been fully proofread.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
स्वेच्छया स्वातन्त्र्येण विकल्पितं निर्मितम् । तथा न दृष्टो विशिष्टपाकः प्रौढत्व
रूपो येन तत् । तथा मात्रया इदमियदेव वाच्यमिति परिमाणेन विहीनम् । प्रलापरूप-
मित्यर्थः । तथा आर्यजनः पूज्यतमलोकस्तेनाजुष्टमसेवितमिदं मम वचनं भवति अथा-
प्येवमपि सति इदं मम वचनं विषमयस्य विषप्रकृतेर्भवामयस्य भवरोगस्य भेषजमौषधं
भवति । सुखस्यापि परिणामदुःखत्वाद्विषमयस्येत्यर्थः । यद्यपि मम वचनमुन्मत्तजल्पि-
तमिवासमञ्जसं तथापि श्रीशिवभक्तिरसामृतमयत्वात्कस्यापि भक्तजनस्य भवरोगौषधं
भवतीत्यर्थः ॥
 
भालानलं तव यथा मुकुटस्थितैव
 
शक्नोति नो शमयितुं किल सिद्धसिन्धुः ।
तद्वज्ज्वलन्तमनिशं हृदि शोकवह्नि
 
वक्रे वसन्त्यपि ममात्र सरस्वतीयम् ॥ २९ ॥
 
हे स्वामिन्, तव मुकुटस्थितैव सिद्धसिन्धुर्गङ्गा तव भालानलं ललाटस्थितनेत्रामिं
शमयितुं यथा न शक्नोति न क्षमते। किल निश्चये । तद्वत्तथा दिवानिशं मम हृदि ज्व-
लन्तं शोकवह्निं जरामरणचिन्ताजनितदुःखाग्निं शमयितुं अत्र वफेऽपि मुखेऽपि वसन्तोयं
मम सरस्वती वाण्येव सरस्वती नदी न शक्नोति । त्वत्कृपां विनेति शेषः ॥
प्राक्चेन्मया विहितमाविलमेव कर्म
स्वामिन्कुतस्त्वयि ममैष दृढोऽनुरागः ।
एकान्तशुक्लमथ चेदतिदुःसहोऽयं
 
शोकानलो हृदयदाहकरः किमन्तः ॥ ३० ॥
 
हे स्वामिन्, प्राग्जन्मनि मया आविलं कलुषमेव कर्म चेयदि विहितं कृतं तदा एष
दृढोऽनुरागो भक्तिरसग्रहस्त्वयि विषये कुतो मम स्यात् । अथानन्तरं यदि मया कर्म
शुक्लमेव कृतं तर्हि हृदयदाहकरो ममान्तर्दाहकरोऽतिशयेन दुःसहो जरामरणशोकाभि-
रन्तः किं स्यात् ॥
 
क्वाप्यन्यजन्मनि विधाय विभोरवश्य-
माराधनामनुशयालु मनो ममाभूत् ।
नो चेत्कथं कुलगुणादिपवित्रमेत-
त्सर्व नृजन्म मम निष्फलमेव जातम् ॥ ३१ ॥
 
हे स्वामिन्, कापि प्राग्जन्मनि विभोः श्रीशंभोराराधनां वाङ्यनः कर्मभिः श्रीशि
बहारकोपासां कृत्वापि मम मनोऽवश्यमेवानुशयाल सपश्चात्तापमभूदिति जाने। 'रन्ध्रे
 
१. 'शिव' स्व.
२२
 
Digitized by Google