2023-10-13 10:10:55 by jayusudindra
This page has been fully proofread once and needs a second look.
पुनरपि निजां वाचं सधैर्यां करोति -
एषा निसर्गकुटिला यदि चन्द्रलेखा
स्वर्गापगा च यदि नित्यतरङ्गितेयम् ।
देवी दयार्द्रहृदया तु नगेन्द्रकन्या
धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५ ॥
हे मातः सरस्वति, निसर्गतः स्वभावेन कुटिला वक्राशया च चन्द्रलेखा तथा स्व-
र्गापगा गङ्गा नित्यतरङ्गिता संजातलहरीका वाक्प्रपञ्चचतुरा च यदि भवति तर्हि नगे-
न्द्रतनया देवी पार्वती । नगेन्द्रतनयेति पदं साभिप्रायम् । शिलेव क्षमाशीला धन्या म
हाभागा दययार्द्रहृदया ते तव दृढामवज्ञामवहेलां न करिष्यति । सैव विभुनिवेदनेन
त्वदाश्वासं करिष्यतीत्यर्थः ॥
त्वामेव देवि शरणीकरवाणि वाणि
कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् ।
मातर्नयामि न पुनर्भवतीमलीक-
वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६ ॥
हे देवि वाणि कल्याणि मङ्गलावहे वाग्देवि, अहं त्वामेव शरणीकरवाणि । त्वमेव
सूक्तिभिः शोभनाभिरुक्तिभिश्चन्द्रमौलिं श्रीशिवमुपस्तुहि । हे मातः, अहं भवतीं वाग्दे-
वीमलीकेन मिथ्यावादेन ये वाचाला बालिशा मूर्खास्तैर्विहितं यद्विलङ्घनं तिरस्कार-
स्तस्य भाजनत्वं पात्रत्वं न पुनर्नयामि । 'तिरस्कृतिभाजनत्वम्' इति पाठः साधुः ॥
देवि प्रपन्नवरदे गुणगौरि गौरि
यद्गौरियं परिमितं स्त्रवतीह किंचित् ।
तत्स्वामिने समुचिते समये सुपाक-
माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७ ॥
....आकूतवेदिन्याशयज्ञे........स्वामिने परमेश्वराय
निववेदयितुं विज्ञप्तुं प्रसीद । अथ च गौर्धेनुर्यत्किंचित्परिमितं क्षीरं स्रवति तच्च सुपाकं
वह्निना सुपक्वं कृत्वा यथा कोऽपि प्रभवे निवेदयति ॥
स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं
मात्राविहीनमिदमार्यजनैरजुष्टम् ।
उन्मत्तभाषितमथापि भवत्यवश्यं
सद्भेषजं विषमयस्य भवामयस्य ॥ २८ ॥

नि
वह्निना सुपक्वं कृत्वा यथा कोऽपि प्रभवे निवेदयति ॥
स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं
मात्राविहीनमिदमार्यजनैरजुष्टम् ।
उन्मत्तभाषितमथापि भवत्यवश्यं
सद्भेषजं विषमयस्य भवामयस्य ॥ २८ ॥