This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
पुनरपि निजां वाचं सधैर्योयां करोति -
 

 
एषा निसर्गकुटिला यदि चन्द्रलेखा

स्वर्गापगा च यदि नित्यतरङ्गितेयम् ।

देवी दयार्द्रहृदया तु नगेन्द्रकन्या
 

धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५ ॥
 

 
हे मातः सरस्वति, निसर्गतः स्वभावेन कुटिला वक्राशया च चन्द्रलेखा तथा स्व-

र्गा
पगा गङ्गा नित्यतरङ्गिता संजातलहरीका वाक्प्रपञ्चचतुरा च यदि भवति तर्हि नगे-

न्द्रतनया देवी पार्वती । नगेन्द्रतनयेति पदं साभिप्रायम् । शिलेव क्षमाशीला धन्या म

हाभागा दययार्द्रहृदया ते तव दृढामवज्ञामवहेलां न करिष्यति । सैव विभुनिवेदनेन

त्वदाश्वासं करिष्यतीत्यर्थः ॥
 

 
त्वामेव देवि शरणीकरवाणि वाणि
 

कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् ।

मातर्नयामि न पुनर्भवतीमलीक-

वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६ ॥
 

 
हे देवि वाणि कल्याणि मङ्गलावहे वाग्देवि, अहं त्वामेव शरणीकरवाणि । त्वमेव

सूक्तिभिः शोभनाभिरुक्तिभिश्चन्द्रमौलिं श्रीशिवमुपस्तुहि । हे मातः, अहं भवर्तीतीं वाग्दे-

वीमलीकेन मिथ्यावादेन ये वाचाला बालिशा मूर्खास्तैर्विहितं यद्विलङ्घनं तिरस्कार-

स्तस्य भाजनत्वं पात्रत्वं न पुनर्नयामि । 'तिरस्कृतिभाजनत्वम्' इति पाठः साधुः ॥

 
देवि प्रपन्नवरदे गुणगौरि गौरि
 

यद्
गौरियं परिमितं स्त्रवतीह किंचित् ।

तत्स्वामिने समुचिते समये सुपाक-

माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७ ॥

 
....आकूतवेदिन्याशयज्ञे........स्वामिने परमेश्वराय

निवदयितुं विज्ञप्तुं प्रसीद । अथ च गौर्धेनुर्यत्किकिंचित्परिमितं क्षीरं स्रवति तच्च सुपाकं
वहि

वह्नि
ना सुपक्कंवं कृत्वा यथा कोऽपि प्रभवे निवेदयति ॥

 
स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं

मात्राविहीनमिदमार्यजनैरजुष्टम् ।
 

उन्मत्तभाषितमथापि भवत्यवश्यं
 

सद्भेषजं विषमयस्य भवामयस्य ॥ २८ ॥
 
Digitized by Google