This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
गृह्णासि मूर्धनि जलैर्वलैर्विलोलै-

[^१]
रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् ।

एतामनन्यगतिमुज्झसि साधुवृत्तां
 

वाचं स्वतन्त्र चरितस्य किमुच्यते ते ॥ २२ ॥
 

 
हे स्वामिन्, धवलैः स्वच्छेचैर्विलोलैर्जलैर्वा रिभिर्डलयोरैक्याज्जडैश्चोद्वेलितां कम्पिताम् ।

वेलां धर्ममर्यादामुत्क्रान्ता उद्वेला तामुद्वेलितामिति साध्वीपक्षे । तथा निजपदान्निज-

स्थानात्, निजं दृढं च तत्पदं साध्वीपदं तस्मात्स्खलितां च द्युसिन्धुं गङ्गां गृह्णासि ।

हे स्वामिन्, अनन्यगतिं नान्यस्मिन्प्रभुव्यतिरिक्ते वर्णनीये गतिर्यस्याः सा तथानन्य-
गति

गतिं
पतिव्रतां च । साधूनि शोभनानि वृत्तानि वसन्ततिलकशार्दूलविक्रीडितादीनि

यस्याः सा तां साधु चारु वृत्तं चरितं यस्याः सा तां चैतां मदोयां वाचं त्यजसि । अतो
हे

द्दो
तोः स्वतन्त्रचरितस्य सदा स्वतन्त्रस्य ते तव विभोः किमुच्यते ॥
 

 
किं भूयसा यदि न ते हृदयंगमेय-

मस्या गृहे वससि किं हृदये मदीये ।

सार्धं प्रियेण वसनं तदुपेक्षणं च
 

दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३ ॥
 

 
किं भूयसा बहुनोक्तेन किम् । हे विभो, इयं मदीया वाणी चेन्न ते हृदयंगमा भवति

तर्ह्यस्या गृहे निवासे मदीये हृदये किं वससि । अत्र लौकिकेन व्यवहारेण समाधत्ते -

सार्धमित्यादि । हि यस्मात्कारणात्सार्धेधं प्रियेण मनोहरेण भर्त्रा च सह वसनं तत्रापि

तदुपेक्षणं तेन कृतमुपेक्षणमवगणनं मानिनीनां मरणादपि दुःखावहं दुःखदायि भवति

 
मातः सरस्वति बधान धूतिं त्वदीयां
 

विज्ञप्तिमार्तिविधुरां विभवे निवेद्य ।

देवी शिवा शशिकला गगनापगा च

कुर्वन्त्यवश्यमबला जनपक्षपातम् ॥ २४ ॥
 

 
हे सरस्वति वाग्देवि मातर्जननि, धृतिं धैर्यं बधान । 'बध बन्धने' धातुः । चेन विभु-

र्
विज्ञप्तिं शृणोति कैव मम धृतिरित्याशङ्कथाक्याह—देवीत्यादि । शिवा देवी पार्वती वामाङ्गस्था,

शशिकला च शिरःस्था, गगनापगा च जटाजूटे आर्त्या विधुरां करुणां विज्ञप्तिं त्वदीयां

विभवे स्वामिने परमेश्वराय निवेद्य निवेर्दायत्वावश्यमेवाबलाजनपक्षपातं स्त्रीजनस्नेहं तव

कुर्वन्ति । ता देव्यः स्त्रीजनस्नेहेन विभुं त्वभिमुखं कुर्वन्तीत्यर्थः ॥
 

 
[^
]. उद्वेल्लितां' ख.
 
Digitized by Google