This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
गृह्णासि मूर्धनि जलैर्घवलैर्विलोलै-
रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् ।
एतामनन्यगतिमुज्झसि साधुवृत्तां
 
वाचं स्वतन्त्र चरितस्य किमुच्यते ते ॥ २२ ॥
 
हे स्वामिन्, धवलैः स्वच्छेविलोलैर्जलैर्वा रिभिर्डलयोरैक्याजडैश्चोद्वेलितां कम्पिताम् ।
वेलां धर्ममर्यादामुत्क्रान्ता उद्वेला तामुद्वेलितामिति साध्वीपक्षे । तथा निजपदान्निज-
स्थानात्, निजं दृढं च तत्पदं साध्वीपदं तस्मात्स्खलितां च द्युसिन्धुं गङ्गां गृह्णासि ।
हे स्वामिन्, अनन्यगतिं नान्यस्मिन्प्रभुव्यतिरिक्त वर्णनीये गतिर्यस्याः सा तथानन्य-
गति पतिव्रतां च । साधूनि शोभनानि वृत्तानि वसन्ततिलकशार्दूलविक्रीडितादीनि
यस्याः सा तां साधु चारु वृत्तं चरितं यस्याः सा तां चैतां मदोयां वाचं त्यजसि । अतो
हेतोः स्वतन्त्रचरितस्य सदा स्वतन्त्रस्य तव विभोः किमुच्यते ॥
 
किं भूयसा यदि न ते हृदयंगमेय-
मस्या गृहे वससि किं हृदये मदीये ।
सार्धं प्रियेण वसनं तदुपेक्षणं च
 
दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३ ॥
 
किं भूयसा बहुनोक्तेन किम् । हे विभो, इयं मदीया वाणी चेन ते हृदयंगमा भवति
तर्ह्यस्या गृहे निवासे मदीये हृदये किं वससि । अत्र लौकिकेन व्यवहारेण समाधत्ते -
सार्धमित्यादि । हि यस्मात्कारणात्सार्धे प्रियेण मनोहरेण भर्त्रा च सह वसनं तत्रापि
तदुपेक्षणं तेन कृतमुपेक्षणमवगणनं मानिनीनां मरणादपि दुःखावहं दुःखदायि भवति
मातः सरस्वति बधान धूतिं त्वदीयां
 
विज्ञप्तिमार्तिविधुरां विभवे निवेद्य ।
देवी शिवा शशिकला गगनापगा च
कुर्वन्त्यवश्यमबला जनपक्षपातम् ॥ २४ ॥
 
हे सरस्वति वाग्देवि मातर्जननि, धृतिं धैर्य बधान । 'बध बन्धने' धातुः । चेन विभु-
विज्ञप्तिं शृणोति कैव मम धृतिरित्याशङ्कथाह—देवीत्यादि । शिवा देवी पार्वती वामाङ्गस्था,
शशिकला च शिरःस्था, गगनापगा च जटाजूटे आर्त्या विधुरां करुणां विज्ञप्तिं त्वदीयां
विभवे स्वामिने परमेश्वराय निवेद्य निवेर्दायत्वावश्यमेवाबलाजनपक्षपातं स्त्रीजनस्नेहं तव
कुर्वन्ति । ता देव्यः स्त्रीजनस्नेहेन विभुं त्वभिमुखं कुर्वन्तीत्यर्थः ॥
 
१. उद्वेल्लितां' ख.
 
Digitized by Google