This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
का
त्यायनीवचनदुर्ललितस्य तानि

[^१]
मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९ ॥
 

 
हे स्वामिन्, इयं मम वाणी आर्त्या केन केन विधिना नाथस्य प्रियतमा स्यामि

त्यार्त्या कदर्शिथिता पीडिता निस्त्रपतया निर्लज्जतया मौग्ध्येन विसंस्थुलानि विशृङ्खलानि

चाटूनि सान्त्ववचनान्यपि कर्तुतुं प्रस्तोत्यारभते । किं तु तानि मदोयवाण्याश्चाटुवचनानि

कात्यायनीवचनेषु दुर्ललितः श्रवणे नित्याभ्यस्तस्तादृशस्य तव मनो न नन्दयन्ति न रञ्ज-

यन्ति । अत्र कात्यायनीति पदं साभिप्रायम् । यश्च कात्यायन्या अर्धवृद्धाया..........

बालाया वचनानि न शृणोतीत्युपहासश्च । 'कात्यायन्यर्धवृद्धा या' इत्यमरः ॥

 
अस्यामसह्यविरह ज्वरकातरायां
 

प्रीतिर्न ते यदि परं निरवग्रहस्य ।

[^२]
सर्वान्तरार्तिदलनाय दृढा प्रतिज्ञा
 

विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २० ॥
 

 
हे विज्ञाततत्त्व विज्ञातं तत्त्वं हृदन्तर्गतमन्तर्यामितया येन स तादृश ईश्वर, निरवग्र
-
हस्य निरङ्कुशस्य तव प्रीतिरसह्यो यो विरहो भवद्वियोगः स एव ज्वरस्तेन कातरायां

दीनायामस्यां मम वाचि परं केवलं यदि न भवति तदा सर्वेषामान्तरान्तर्गता यार्तिः,

अथ वा सर्वे ये आन्तरा मनोगता दोषास्तेषामार्तिदलनाय दृढानपायिनी प्रतिज्ञा कथं

ते विभो, विस्मृता ॥
 

 
सत्यं कलां वहसि बिभ्रदुमां यदर्घे
 
धे
धत्से दयां हृदि ययार्तिषु नर्तयन्त्या ।

नीतोऽसि नीलगल नीलगलत्वमेव
 
महा

मद्वा
चि साचि तु मुखं कुरुषे रुषेव ॥ २१ ॥
 
सत्यमेतत्
 

 
हे नीलगल नीलो गलः कालकूटाख्यविषविशेषनिगरणाद्यस्य स तादृश,
सत्यमेतत्
यत्त्वं चन्द्रकलां वहसि । अथ च कलां शिल्प विशेषं वा वहसि । त्वमेव कलावदग्रणीर-

सीति भावः । एतदेवाह-यदुमां पार्वतीमर्धे शरीरार्धे बिभ्रत्वं तां तां दयां कृपां हृदि

मनसि धत्से । तां कामित्याह - यया कृपयार्थिषु सामर्थ्याद्ब्रह्मादिदेवेषु त्वां नर्तयन्त्या

त्वमेव नीलगलत्वं तन्त्राणाय कालकूट विषभक्षणान्नीलकण्ठत्वं तथार्थिषु शरणं प्रार्थयत्सु

त्रिलोकीजनेषु नीलगलत्वं मयूरत्वं नीतोऽसि । नर्तितोऽसीत्यर्थः । एतत्तावदास्ताम् ।

तुः पक्षान्तरे । हे स्वामिन्, त्वं तु मद्वाचि त्वद्विरहातुरायां रुषेव मुखं साचि वक्रं

कुरुषे ।
 

 
[^
]. 'शक्तोपमानि' ख.
[^
]. 'सर्वातुरार्ति' ख.
 
Digitized by Google