2023-02-23 21:27:26 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
कात्यायनीवचनदुर्ललितस्य तानि
मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९ ॥
हे स्वामिन, इयं मम वाणी आर्त्या केन केन विधिना नाथस्य प्रियतमा स्यामि
त्यार्त्या कदर्शिता पीडिता नित्रपतया निर्लजतया मौग्ध्येन विसंस्थुलानि विशृङ्खलानि
चाटूनि सान्त्ववचनान्यपि कर्तु प्रस्तोत्यारभते । किं तु तानि मदोयवाण्याश्चाटुवचनानि
कात्यायनीवचनेषु दुर्ललितः श्रवणे नित्याभ्यस्तस्तादृशस्य तव मनो न नन्दयन्ति न रअ-
यन्ति । अत्र कात्यायनीति पदं साभिप्रायम् । यश्च कात्यायन्या अर्धवृद्धाया..........
बालाया वचनानि न शृणोतीत्युपहासश्च । 'कात्यायन्यर्धवृद्धा या' इत्यमरः ॥
अस्यामसह्यविरह ज्वरकातरायां
प्रीतिर्न ते यदि परं निरवग्रहस्य ।
सर्वान्तरार्तिदलनाय दृढा प्रतिज्ञा
विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २० ॥
हे विज्ञाततत्त्व विज्ञातं तत्त्वं हृदन्तर्गतमन्तर्यामितया येन स तादृश ईश्वर, निरवग्र
हस्य निरङ्कुशस्य तव प्रीतिरसह्यो यो विरहो भवद्वियोगः स एव ज्वरस्तेन कातरायां
दीनायामस्यां मम वाचि परं केवलं यदि न भवति तदा सर्वेषामान्तरान्तर्गता यातिः,
अथ वा सर्वे ये आन्तरा मनोगता दोषास्तेषामार्तिदलनाय दृढानपायिनी प्रतिज्ञा कथं
ते विभो, विस्मृता ॥
सत्यं कलां वहसि बिभ्रदुमां यदर्घे
धत्से दयां हृदि ययार्तिषु नर्तयन्त्या ।
नीतोऽसि नीलगल नीलगलत्वमेव
महाचि साचि तु मुखं कुरुषे रुषेव ॥ २१ ॥
सत्यमेतत्
हे नीलगल नीलो गलः कालकूटाख्यविषविशेषनिगरणाद्यस्य स तादृश,
यत्त्वं चन्द्रकलां वहसि । अथ च कलां शिल्प विशेषं वा वहसि । त्वमेव कलावदग्रणीर-
सीति भावः । एतदेवाह-यदुमां पार्वतीमर्धे शरीरार्धे बिभ्रत्वं तां तां दयां कृपां हृदि
मनसि धत्से । तां कामित्याह - यया कृपयार्थिषु सामर्थ्याद्ब्रह्मादिदेवेषु त्वां नर्तयन्त्या
त्वमेव नीलगलत्वं तत्राणाय कालकूट विषभक्षणान्नीलकण्ठत्वं तथार्थिषु शरणं प्रार्थयत्सु
त्रिलोकीजनेषु नीलगलत्वं मयूरत्वं नीतोऽसि । नतितोऽसीत्यर्थः । एतत्तावदास्ताम् ।
तुः पक्षान्तरे । हे स्वामिन्, त्वं तु मद्वाचि त्वद्विरहातुरायां रुषेव मुखं साचि वक्रं
कुरुषे ।
१. 'शक्तोपमानि' ख. २. 'सर्वातुरार्ति' ख.
Digitized by Google