This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
धाराधिरूढविरहव्यथितामिदानी-

माधाय धैर्यमवधीरयसीत्ययुक्तम् ॥ १६ ॥
 

 
हे स्वामिन्, स्वे धाम्नि निजगृहे मे मम हृदि प्रवेशं कृत्वा तत्रैव कृतस्थितिं विहित

स्थितिमुक्तिदेवीं वाग्देवीं स्वयमेवोन्मुखत्वं त्वमेवानयः नीतवानसि । त्वं पुनस्तस्या धै

र्यमाधाय त्वामहं गृह्णामीत्येवं रूपं धैर्यं दत्त्वा इदानीं परां धारां काष्ठामधिरूढो यो वि

रहस्तेन व्यथितां तामवधीरयस्यवगणयसीति यदित्येतदयुक्तम् ॥
 

इदानीं प्रेमोत्कर्षेण निजकलेवरे शिवार्धघटनेन श्रीशिवस्य हृदि नान्यस्या अवकाश

इत्याशङ्कामपहरन्कविराह-

 
एका त्वमेव भवितासि मम प्रियेति
 

दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः ।

प्रेम्णा बिभाषभर्षि कथमम्बरसिन्धुमिन्दु-
१६५
 

लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७ ॥
 

 
त्वमेवैका अपर्णा मम प्रिया प्रियतमा भवितासीति दत्तं वरं गिरिराजपुत्र्याः पार्वत्याः

स्मरसि चेत्, हे स्वामिन्, तर्हि प्रेम्णा प्रेमभरेणाम्बरसिन्धुं गङ्गां मूर्ध्नि किं वहसि ।

इन्दुलेखां चन्द्रलेखां च मूर्ध्नि किं वहसि । हृदये निजे हृदये दयितां प्रियां दयां कृपां च

कथं बिभर्षि धारयसि । अतो मदीयामपि वाणीं हृदि धारयेत्यर्थः ॥
 

 
एतां निसर्गसरलामभिजात मुग्धा-
मडा

मद्धा
वधीरयसि धीरगभीरमानी ।

जानासि किं न शतशो नतसान्त्वनेषु
 

यहृद्धया करुणया नरिनर्तितोऽसि ॥ १८ ॥
 

 
अद्धा निश्चये । हे स्वामिन्, धीरं गभीरं चात्मानं मन्यत इति धोरगभीरमानी त्वं

निसर्गतः सरलामवक्राम् । स्वभावविमलामित्यर्थः । अभिजातमुग्धामभिजाता चासौ

मुग्धा सुकुमारा च तामवधीरयसि । हे विभो, तल्कित्किं न जानासि । तत्किमित्याह-

शतश इत्यादि । शतशः शतवारं नतानां भक्तिप्रारह्वाणां सान्त्वनेष्वाश्वासाय मधुरवचनेषु

वृद्धया वृद्धिंगतया जरत्या च करुणया कृपया यन्त्ररिनर्तितोऽस्यत्यर्थं नर्तितोऽसि । अतो

मदीयां वाचं मुग्धां किं त्यजसीत्यर्थः ॥
 

 
प्रस्तौति निस्त्रपतयार्तिकदर्शिथितेयं

चाटूनि कर्तुमपि मौग्ध्यविसंस्थुलानि ।
 
Digitized by Google