This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
धाराधिरूढविरहव्यथितामिदानी-
माधाय धैर्यमवधीरयसीत्ययुक्तम् ॥ १६ ॥
 
हे स्वामिन्, स्वे धाम्नि निजगृहे मे मम हृदि प्रवेशं कृत्वा तत्रैव कृतस्थितिं विहित
स्थितिमुक्तिदेवीं वाग्देवीं स्वयमेवोन्मुखत्वं त्वमेवानयः नीतवानसि । त्वं पुनस्तस्या धै
र्यमाधाय त्वामहं गृह्णामीत्येवं रूपं धैर्य दत्त्वा इदानीं परां धारां काष्ठामधिरूढो यो वि
रहस्तेन व्यथितां तामवधीरयस्यवगणयसीति यदित्येतदयुक्तम् ॥
 
इदानीं प्रेमोत्कर्षेण निजकलेवरे शिवार्धघटनेन श्रीशिवस्य हृदि नान्यस्या अवकाश
इत्याशङ्कामपहरन्कविराह-
एका त्वमेव भवितासि मम प्रियेति
 
दत्तं वरं स्मरसि चेगिरिराजपुत्र्याः ।
प्रेम्णा बिभाष कथमम्बरसिन्धुमिन्दु-
१६५
 
लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७ ॥
 
त्वमेवैका अपर्णा मम प्रिया प्रियतमा भवितासीति दत्तं वरं गिरिराजपुत्र्याः पार्वत्याः
स्मरसि चेत्, हे स्वामिन्, तर्हि प्रेम्णा प्रेमभरेणाम्बरसिन्धुं गङ्गां मूर्ध्नि किं वहसि ।
इन्दुलेखां चन्द्रलेखां च मूर्ध्नि किं वहसि । हृदये निजे हृदये दयितां प्रियां दयां कृपां च
कथं बिभषि धारयसि । अतो मदीयामपि वाणीं हृदि धारयेत्यर्थः ॥
 
एतां निसर्गसरलामभिजात मुग्धा-
मडावधीरयसि धीरगभीरमानी ।
जानासि किं न शतशो नतसान्त्वनेषु
 
यहृद्धया करुणया नरिनर्तितोऽसि ॥ १८ ॥
 
अद्धा निश्चये । हे स्वामिन्, धीरं गभीरं चात्मानं मन्यत इति धोरगभीरमानी त्वं
निसर्गतः सरलामवक्राम् । स्वभावविमलामित्यर्थः । अभिजातमुग्धामभिजाता चासौ
मुग्धा सुकुमारा च तामवधीरयसि । हे विभो, तल्कि न जानासि । तत्किमित्याह-
शतश इत्यादि । शतशः शतवारं नतानां भक्तिप्राणां सान्त्वनेष्वाश्वासाय मधुरवचनेषु
वृद्धया वृद्धिंगतया जरत्या च करुणया कृपया यन्त्ररिनर्तितोऽस्यत्यर्थ नर्तितोऽसि । अतो
मदीयां वाचं मुग्धां किं त्यजसीत्यर्थः ॥
 
प्रस्तौति निस्त्रपतयार्तिकदर्शितेयं
चाटूनि कर्तुमपि मौग्ध्यविसंस्थुलानि ।
 
Digitized by Google