This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
लत्यलङ्घयमहिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लघयत्वधं वः' इत्यत्र अघं हरतु
इत्यस्य स्थाने लघयतु अत्यन्ततनूकरणेन निःशेषं करोतु इत्युपचारवक्रत्वम् । तथा
'अङ्गीकरोत्वरमभङ्गुरमितिं वः' इत्यत्र पूर्णमीप्सितं ददातु इत्यस्य स्थाने अभङ्गुरमि
तिमङ्गीकरोतु इत्युपचारवऋत्वम् । एवमन्यत्राप्यूयम् । तथा कर्णयोः कर्तुः सहृदयस्य
श्रोत्रयोरमृतवर्षिणी । यथा सरस्वती वीणा स्वामिनो मनो मुहूर्तमुज्झितस्वैरचापलं
करोति । सापि किंभूता । स्थिरा गुणास्तन्त्र्यो यस्याः सा । पुनः सवक्रिमा कुटिला,
कर्णयोरमृतवर्षिणी च ॥
 
रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता ।
 
रञ्जयत्वियमलंकृता मनः स्वामिनः प्रणयिनी सरस्वती ॥ ३ ॥
 
रम्यरीतिरिति । इयं मे सरस्वती वाणी स्वामिनः परमेशस्य मनो रञ्जयत्विति सं-
बन्धः । किंभूता वाणी । रम्यरीतिः रम्या रीतिर्मुख्यत्वाद्वैदर्भी रीतिर्यस्याः । तथा
अनघा गुणोज्ज्वला च प्राग्वत् । तथा चारूणि वृत्तानि वसन्ततिलकशार्दूलविक्रीडि
तादीनि यस्यां सा चारुवृत्ता । तादृशी चासौ रुचिरा च । तथा च रसेन मुख्येन शा-
न्तरसादिनान्विता । तथा अलंकृता वक्रोक्त्यादिशब्दालंकारैरुपमाद्यर्थालंकारैश्च युक्ता ।
पुनः किंभूता । प्रणयिनी । निजाभिष्टं प्रार्थयित्रोत्यर्थः । यथा च प्रणयिनी कामिनी
स्वामिनो मनो रञ्जयति । सापि किंभूता । रम्यरीतिः । 'प्रचारस्यन्दयो रीतिः' इत्यु-
मरः । 'प्रचारो व्यवहारः' इति रायमुकुटीकारः । 'प्रचार: शीलम्' इति क्षीरस्वामी ।
'वैदर्भ्यादावारकूटे प्रचारस्यन्दयोस्तथा । मर्यादायां चरीति स्त्री' इति मङ्गः । रम्या
रीतिर्व्यवहारः शीलं वा मर्यादा वा कुलस्त्रीगुणानां यस्याः सा रम्यरीतिः । तथा अ
नघा निर्दोषा निष्पापा वा । गुणैश्च लावण्यदयादाक्षिण्यादिभिरुज्ज्वला । चारु वृत्तं
चारित्रं यस्याः सा चासौ रुचिरा च । 'वृत्तमध्ययने पद्ये चारित्रे वर्तने मृत' इति
मङ्गः । रसान्विता रसेन रागेण भर्तृविषये स्थिरेणान्विता । 'रसो गन्धरसे स्वादे ति-
क्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ॥" इति विश्वः । तथा अलं-
कृता हाराद्याभरणयुक्ता ॥
 
सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् ।
 
निर्मलं सघनकालविष्ठवा मानसं स्मरजित: सरस्वती ॥ ४ ॥
 
सत्त्वधामेति । इयं मे सरस्वती वाणी स्मरजित: परमेशस्य मानसं चित्तं वि-
शत्विति संबन्धः । कीदृशं चित्तम् । सत्त्वस्य प्रीत्यात्मकस्य प्रकाशरूपस्य सत्त्वगुणस्य
धैर्यस्य वा धाम स्थानम् । किंभूता वाणी । घनः कालस्य कृतान्तस्य विप्लव उपद्रवो
मरणत्रासो यस्याः सा । घनो बहलो यः कालविप्लवो यमभोतिस्तदर्थ या सा इति
वा । कालस्य वर्तमानतुरीयगुगसमयस्य वा विप्लवो यस्याः सा । पुनश्च किंभूता । वरे-
त्यादि । 'वरो विवाहे देवादेः प्रार्थिते स्वीकृतावपि' इति मङ्गः । वरस्य देवादेः प्रार्थि-
Digitized by Google