This page has been fully proofread once and needs a second look.

१६४
 
काव्यमाला ।
 
प्रगल्भाः प्रौढोक्तयश्च तेषां संदर्भगर्भरचनयाञ्चिता ये वाक्प्रपञ्चास्तैर्दयानिधीनां हृदयानि

तद्वन्न द्रवन्ति ॥
 

 
पूर्वोक्तमेव पुनः समर्थयति-

दुग्धाब्धिदोऽपि पयसः प्टषतं वृणोषि

दीपं त्रिधामनयनोऽप्युररीकरोषि ।

वाचां प्रसूतिरपि मुग्धवचः शृणोषि
 

किं किं करोषि न विनीतजनानुरोधात् ॥ १४ ॥
 

 
हे स्वामिन्, दुग्धाब्धिदो बालायोपमन्यवे क्षीरसमुद्रदोऽपि त्वं पयसः क्षीरस्य पृषतं

कणमर्चनसमये भक्तजनेन वितीर्णं वृणोषि गृह्णासि । तथा त्रीणि धामान्यर्केन्दुवह्निरू.

पाणि नयनेषु यस्य तादृशोऽपि त्वं दीपं प्रदीपमुररीकरोष्यङ्गीकुरुषे । तथा वाचां ब्रा-

ह्मीणां शब्दानां च प्रसूतिरुत्पत्तिकारणमपि त्वं मुग्धानां मादृशानां वचः स्तुतिवचनं

शृणोषि । एतत्कारणं संग्रहेणा- किं किमित्यादि । हे दयालो, त्वं विनीतजना भ

क्तिरसामृतसिक्तचेतसस्तेषामनुरोधादुपरोधार्तिकत्किं किं न करोषि । एतदभिप्रायानुसारेण

ममापीदमेकं वृत्तम्–'गङ्गाधरोऽपि वृणुषे पयसोऽभिषेकं गृह्णासि चार्ध्यकणिकाः स्वय-
मप्यनर्थ्

मप्यनर्घ्
यः । ज्योतिः परं त्वमसि दीपमुरीकरोषि किं किं करोषि न विनीतजनानुरो

धात् ॥' इति ॥
 
.
 

 
यत्सत्यवत्यपि जगद्विदितानसूया
 

वाणी ममेयमिदमेव हि देव चित्रम् ।

अत्यद्भुतं पुनरिदं यदरुन्धतीयं
 

त्वामारिराधयिषुरेवमुदीरितापि ॥ १५ ॥
 

 
हे स्वामिन्देव, जगद्विदिता जगति प्रसिद्धा सत्यवती सत्यं विद्यते यस्याः सा तादृशी

सत्यवत्यपि वर्तते सा ममेयं वाणी अनसूया अविद्यमाना असूया रोषो यस्याः सानसूया

यद्भवति इदमेव चित्रमाश्चर्यम् । या च सत्यवती पराशरमुनिवर्यस्त्री सा कथमनसूया

अत्रिमुनिपत्नी स्यात् । इदमेकमाश्चर्यम् । इदं पुनरत्यद्भुतमत्याश्चर्यम् । एवमनेन प्रकारेण

पूर्वोक्तेनोदीरितापि त्वामरुन्धती न रुन्धती प्राप्नुवती अरुन्धती । अत एव त्वामेवारि-

राधयिषुराराधयितुमिच्छुरियं मम वाणी यदस्ति तत्पुनरत्याश्चर्यम् । विरोधाभासोऽलं-

कारः । यैव सत्यवती पतिव्रतास्ति सा कथमनसूया स्यात् । या चानुसूया सा कथमरुन्धती

वसिष्ठधर्मपत्नी स्यादिति विरोध: । अन्यार्थत्वेन तदभावः ॥
 

 
स्वे धाम्नि मे हृदि कृतस्थितिमुक्तिदेवीं

कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् ।
 
Digitized by Google