2023-02-23 21:27:26 by ambuda-bot
This page has not been fully proofread.
१६४
काव्यमाला ।
प्रगल्भाः प्रौढोक्तयश्च तेषां संदर्भगर्भरचनयाञ्चिता ये वाक्प्रपञ्चास्तैर्दयानिधीनां हृदयानि
तद्वन्न द्रवन्ति ॥
पूर्वोक्तमेव पुनः समर्थयति-
दुग्धाब्धिदोऽपि पयसः टषतं वृणोषि
दीपं त्रिधामनयनोऽप्युररीकरोषि ।
वाचां प्रसूतिरपि मुग्धवचः शृणोषि
किं किं करोषि न विनीतजनानुरोधात् ॥ १४ ॥
हे स्वामिन्, दुग्धाब्धिदो बालायोपमन्यवे क्षीरसमुद्रदोऽपि त्वं पयसः क्षीरस्य पृषतं
कणमर्चनसमये भक्तजनेन वितीर्ण वृणोषि गृह्णासि । तथा त्रीणि धामान्यर्केन्दुवह्निरू.
पाणि नयनेषु यस्य तादृशोऽपि त्वं दीपं प्रदीपमुररीकरोष्यङ्गीकुरुषे । तथा वाचां ब्रा-
ह्मीणां शब्दानां च प्रसूतिरुत्पत्तिकारणमपि त्वं मुग्धानां मादृशानां वचः स्तुतिवचनं
शृणोषि । एतत्कारणं संग्रहेणा- किं किमित्यादि । हे दयालो, त्वं विनीतजना भ
क्तिरसामृतसिक्तचेतसस्तेषामनुरोधादुपरोधार्तिक किं न करोषि । एतदभिप्रायानुसारेण
ममापीदमेकं वृत्तम्–'गङ्गाधरोऽपि वृणुषे पयसोऽभिषेकं गृह्णासि चार्ध्यकणिकाः स्वय-
मप्यनर्थ्यः । ज्योतिः परं त्वमसि दीपमुरीकरोषि किं किं करोषि न विनीतजनानुरो•
धात् ॥' इति ॥
.
यत्सत्यवत्यपि जगद्विदितानसूया
वाणी ममेयमिदमेव हि देव चित्रम् ।
अत्यद्भुतं पुनरिदं यदरुन्धतीयं
त्वामारिराधयिषुरेवमुदीरितापि ॥ १५ ॥
हे स्वामिन्देव, जगद्विदिता जगति प्रसिद्धा सत्यवती सत्यं विद्यते यस्याः सा तादृशी
सत्यवत्यपि वर्तते सा ममेयं वाणी अनसूया अविद्यमाना असूया रोषो यस्याः सानसूया
यद्भवति इदमेव चित्रमाश्चर्यम् । या च सत्यवती पराशरमुनिवर्यस्त्री सा कथमनसूया
अत्रिमुनिपत्नी स्यात् । इदमेकमाश्चर्यम् । इदं पुनरत्यद्भुतमत्याश्चर्यम् । एवमनेन प्रकारेण
पूर्वोक्तेनोदीरितापि त्वामरुन्धती न रुन्धती प्राप्नुवती अरुन्धती । अत एव त्वामेवारि-
राधयिषुराराधयितुमिच्छुरियं मम वाणी यदस्ति तत्पुनरत्याश्चर्यम् । विरोधाभासोऽलं-
कारः । यैव सत्यवती पतिव्रतास्ति सा कथमनसूया स्यात् । या चानुसूया सा कथमरुन्धती
वसिष्ठधर्मपत्नी स्यादिति विरोध: । अन्यार्थत्वेन तदभावः ॥
स्वे धाम्नि मे हृदि कृतस्थितिमुक्तिदेवीं
कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् ।
Digitized by Google