This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलि: ।
 
१६३
 
सुदुस्तरात् । तरणिमुडुपं रक्षन्नित्यं विलोचनगोचरे स भवति विभुर्यस्य स्वामी कृपक
पैक
सुधाम्बुधिः ॥' तथा – 'कथं न लोके परिहास्यतामहं व्रजाम्यतीवार्तिकदर्थिताशयः ।

भवाम्बुधिं तर्तुमकर्णधारकं जडो यतो याम्युडुपार्धधारिणम् ॥' इति । ईश्वरपक्षे अक
र्णो

र्णां
श्चक्षुःश्रवसः सर्पान्वासुक्यादीन्धारयत्यकर्णधारकस्तं तथा उडुपस्य चन्द्रस्यार्धेधं धार-

यतीति तादृशम् । तथा कर्णमरित्रं धारयतीति कर्णधारः । कर्णधार एव कर्णधारकः ।

अकर्णधारकमुडुपस्य प्लवस्यार्धेधं धारयतीति तादृशं च ॥

 
अस्मादृशैरशुचिभिश्चटुचापलानि
 
कृ

क्लृप्
तान्यवैमि न मन मनस्तव नन्दयन्ति ।
स्तव नन्दयन्ति ।
आवर्जनाय विहितान्यपि चन्द्रमौले
 

कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११ ॥
 

 
हे स्वामिन्, अशुचिभिरपवित्रैः क्लृप्तानि विहितानि चटुचापलानि चाटून्येव चाप-

लानि तव प्रभोर्मनो न नन्दयन्तीत्यवैमि। दृष्टं चैतत् । हे चन्द्रमौले श्रीशिव, आवर्ज-

नाय विहितान्यपि कौलेयकस्य शुनो लडितान्यभितः परिवर्तनानि जनेन किमाद्रियन्ते ।

नाद्रियन्त इत्यर्थः । 'कौलेयकः सारमेयः' इत्यमरः । कुले गृहे वसतीति कौलेयकः श्वा ॥

 
यद्वा न मुग्धचरितान्यपि न प्रसाद-

मुत्पादयन्ति भवतः करुणार्णवस्य ।

स्वामिन्दरत्पुरविहारपरस्य किं न
 

चेतो हरन्ति तव बालकवल्गितानि ॥ १२ ॥
 

 
यद्वा पक्षान्तरे । हे स्वामिन् मुग्धानां मूढानां चरितान्यपि कृपासमुद्रस्य भवतः

प्रसादमनुग्रहं न नोत्पादयन्ति अपि तूत्पादयन्ति । तथा हि हे विभो, दरत्पुरं लम्पाक-

देशैकविषयः । दरत्पुरे विहारः खेलनं तत्र परः तादृशस्य स्वतन्त्रस्य भवतस्तद्देशीय

बालकै: सह क्रीडापरस्य बालकवल्गितानि बालकानां वल्गितानि नृत्तानि किं न चेतो

हरन्ति । अपि तु चेतो हरन्त्येव ॥
 

 
दीनैर्विमुग्धवचनैरसमञ्जसार्थेथै-
र्यद्व

र्यद्वद्
द्रवन्ति हृदयानि दयानिधीनाम् ।

तद्वन्न दृष्टसभसप्रतिभप्रगल्भ-

संदर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ १३ ॥
 

 
दोनैः करुणोत्पादकैः असमञ्जसार्थैरप्रकटार्यैः विशेषेण मुग्धानां विमुग्धानां वचनैर्य-

द्वद्दयानिधीनां दयालूनां विभूनां हृदयानि द्रवन्ति कृपारसेनाद्रींभवन्ति दृष्टा सभा वि-

द्वत्सभा यैस्ते च तथा सह प्रतिभया नवनवोल्लेखशालिन्या बुद्ध्या वर्तन्ते ये ते च तथा
 
Digitized by Google