This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलि: ।
 
१६३
 
सुदुस्तरात् । तरणिमुडुपं रक्षन्नित्यं विलोचनगोचरे स भवति विभुर्यस्य स्वामी कृपक
सुधाम्बुधिः ॥' तथा – 'कथं न लोके परिहास्यतामहं व्रजाम्यतीवार्तिकदर्थिताशयः ।
भवाम्बुधिं तर्तुमकर्णधारकं जडो यतो याम्युडुपार्धधारिणम् ॥' इति । ईश्वरपक्षे अक
र्णोश्चक्षुःश्रवसः सर्पान्वासुक्यादीन्धारयत्यकर्णधारकस्तं तथा उडुपस्य चन्द्रस्यार्धे धार-
यतीति तादृशम् । तथा कर्णमरित्रं धारयतीति कर्णधारः । कर्णधार एव कर्णधारकः ।
अकर्णधारकमुडुपस्य प्लवस्यार्धे धारयतीति तादृशं च ॥
अस्मादृशैरशुचिभिश्चटुचापलानि
 
कृतान्यवैमन मनस्तव नन्दयन्ति ।
आवर्जनाय विहितान्यपि चन्द्रमौले
 
कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११ ॥
 
हे स्वामिन्, अशुचिभिरपवित्रैः क्लृप्तानि विहितानि चटुचापलानि चाटून्येव चाप-
लानि तव प्रभोर्मनो न नन्दयन्तीत्यवैमि। दृष्टं चैतत् । हे चन्द्रमौले श्रीशिव, आवर्ज-
नाय विहितान्यपि कौलेयकस्य शुनो लडितान्यभितः परिवर्तनानि जनेन किमाद्रियन्ते ।
नाद्रियन्त इत्यर्थः । 'कौलेयकः सारमेयः' इत्यमरः । कुले गृहे वसतीति कौलेयकः श्वा ॥
यद्वा न मुग्धचरितान्यपि न प्रसाद-
मुत्पादयन्ति भवतः करुणार्णवस्य ।
स्वामिन्दरत्पुरविहारपरस्य किं न
 
चेतो हरन्ति तव बालकवल्गितानि ॥ १२ ॥
 
यद्वा पक्षान्तरे । हे स्वामिन् मुग्धानां मूढानां चरितान्यपि कृपासमुद्रस्य भवतः
प्रसादमनुग्रहं न नोत्पादयन्ति अपि तूत्पादयन्ति । तथा हि हे विभो, दरत्पुरं लम्पाक-
देशैकविषयः । दरत्पुरे विहारः खेलनं तत्र परः तादृशस्य स्वतन्त्रस्य भवतस्तद्देशीय
बालकै: सह क्रीडापरस्य बालकवल्गितानि बालकानां वल्गितानि नृत्तानि किं न चेतो
हरन्ति । अपि तु चेतो हरन्त्येव ॥
 
दीनैर्विमुग्धवचनैरसमञ्जसार्थे-
र्यद्वद्रवन्ति हृदयानि दयानिधीनाम् ।
तद्वन्न दृष्टसभसप्रतिभप्रगल्भ-
संदर्भगर्भरचनाचितवाक्प्रपञ्चैः ॥ १३ ॥
 
दोनैः करुणोत्पादकैः असमञ्जसार्थैरप्रकटार्यैः विशेषेण मुग्धानां विमुग्धानां वचनैर्य-
द्वद्दयानिधीनां दयालूनां विभूनां हृदयानि द्रवन्ति कृपारसेनाद्रींभवन्ति दृष्टा सभा वि-
द्वत्सभा यैस्ते च तथा सह प्रतिभया नवनवोल्लेखशालिन्या बुद्ध्या वर्तन्ते ये ते च तथा
 
Digitized by Google