This page has been fully proofread once and needs a second look.

१६२
 
काव्यमाला ।
 
मुना ममान्तरित्यादि । "दमुना 'दम उपशमे' धातुः । अन्तर्भावितण्यर्थाद्दमेः ……दम्य-

तीति दमुना इति स्वामी । दमूना दीर्घमध्योऽपि । 'दमूना, दमुना: प्राचीनबर्हिःशुचि-

बहिषौ' इति नामनिदानात्" इति रायमुकुटीकारः । यो दमुना अग्निरघान्येव निदाघ-

स्तस्य निदानं तस्माज्जन्म यस्य सोऽघनिदाघनिदानजन्मा ममान्तः प्रज्वलति जाज्व

लीति । अतश्च प्रतिभया 'मतिर्नवनवोल्लेखशालिनी प्रतिभा मता' तथा मुक्तस्य रहि-

तस्य मे अतश्चातिभयेन जन्मजरामरणत्रासेनाकुलस्य विगलतः पततो मम गलतः

कण्ठतो वाणी कथमभ्युदेति ॥
 

 
क्रन्दाम्यतः किमपि नाम पिनाकपाणे

तीव्रार्तिनिस्तरणकारण कातरोऽहम् ।

मोहाटवी विकटसंकटसंस्थितस्य
 
....
 
[^१]तस्य
तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९ ॥
 

 
नाम संभावनायाम् । हे पिनाकपाणे, तीव्रार्तिनिस्तरणकारण श्रीशिव, अतः पूर्वो

क्तकारणात्कातरो दीनोऽहं किमप्युच्चावचं क्रन्दामि विलपामि । शिव कैवल्यदायिन्,

मोहोऽविद्यैवाटवी अरण्यं सैव विकटसंकटो महासंकटो देशस्तत्र संस्थितस्य मम शि

वायात्यन्तिकदुःखनिवृत्तये तद्विलपितमवधारय विचारय ॥
 

 
आक्रन्दमिन्दुधर धारय देव कर्णे

कस्त्वत्परः परमकारण कर्णधारः ।

मूर्ध्ना वहन्नुडपखण्डमखण्डपुण्यं
 

कं कं न तारयसि संसृतिसागराद्यः ॥ १० ॥
 

 

 
हे इन्दुधर चन्द्रमौले, त्वं ममाक्रन्दं कर्णे धारय । शृणुष्वेत्यर्थः । हे परमकारण ब्रह्मा-

दीनां षट्कारणानामपि कारण परमशिव, स कस्त्वत्परः कर्णधारः श्रुतौ (?) अथ च कर्ण-

धारो नाविकः । कर्णमरित्रं धारयति कर्णधारो नाविकः । स क इत्याह – मूर्धेध्नेत्यादि । य

ईश्वरः कर्णधारः उडून्नक्षत्राणि पातीत्युडुपश्चन्द्रस्तस्य खण्डस्तं चन्द्रशकलं मूर्ध्ना शिरसा

वहन्संसृतिसागराद्भवसागरात्कं कं नाखण्डपुण्यं पूर्णपुण्यं जनं तारयति । अथ चोडुपं

प्लवः । "उडु जलम् । यथा 'उडुहस्तिनीसहस्रवर्णम्' इति हरिप्रबोधः । अत्रोडुहस्तिनी

जलहस्तिनीत्यर्थे । उडव आपः इति शिक्षाकरगुप्तः । उडुनि जले उडुनो जलाद्वा ।

उडुपं ह्रस्वादि ह्रस्त्रमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः, चन्द्रगोमी च । अतः

पुंस्यपि । उत्तारयत्यद्भथ इति उदुपधादप्शब्दस्याकारस्योत्वे नैरुक्ते वर्णविकारे उडुप

इत्युज्ज्वलदत्तः ।" इति रायमुकुटीकारः । उडुपखण्डं प्लवखण्डं धारयन्कर्णधारो ना-

विकः सागरात्परिपूर्णं तारयति यथा । एतद्द्वृत्ताशयानुसारेण ममापीदं वृत्तद्वयम् ।

यथा – 'बहुविधपरिभ्राम्यन्मायातरङ्गशताकुलाद्भवजलनिधेः को वा त्रासो ममास्ति
 
Digitized by Google