2023-02-23 21:27:26 by ambuda-bot
This page has not been fully proofread.
१६२
काव्यमाला ।
मुना ममान्तरित्यादि । "दमुना 'दम उपशमे' धातुः । अन्तर्भावितण्यर्थाद्दमेः दम्य-
तीति दमुना इति स्वामी । दमूना दीर्घमध्योऽपि । 'दमूना दमुना: प्राचीनबर्हिःशुचि-
बहिषौ' इति नामनिदानात्" इति रायमुकुटीकारः । यो दमुना अग्निरघान्येव निदाघ-
स्तस्य निदानं तस्माजन्म यस्य सोऽघनिदाघनिदानजन्मा ममान्तः प्रज्वलति जाज्व
लीति । अतश्च प्रतिभया 'मतिर्नवनवोल्लेखशालिनी प्रतिभा मता' तथा मुक्तस्य रहि-
तस्य मे अतश्चातिभयेन जन्मजरामरणत्रासेनाकुलस्य विगलतः पततो मम गलतः
कण्ठतो वाणी कथमभ्युदेति ॥
क्रन्दाम्यतः किमपि नाम पिनाकपाणे
तीव्रार्तिनिस्तरणकारण कातरोऽहम् ।
मोहाटवी विकटसंकटसंस्थितस्य
....
तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९ ॥
नाम संभावनायाम् । हे पिनाकपाणे, तीव्रार्तिनिस्तरणकारण श्रीशिव, अतः पूर्वो
क्तकारणात्कातरो दीनोऽहं किमप्युच्चावचं क्रन्दामि विलपामि । शिव कैवल्यदायिन्,
मोहोऽविद्यैवाटवी अरण्यं सैव विकटसंकटो महासंकटो देशस्तत्र संस्थितस्य मम शि
वायात्यन्तिकदुःखनिवृत्तये तद्विलपितमवधारय विचारय ॥
आक्रन्दमिन्दुधर धारय देव कर्णे
कस्त्वत्परः परमकारण कर्णधारः ।
मूर्ध्ना वहन्नुडपखण्डमखण्डपुण्यं
कं कं न तारयसि संसृतिसागराद्यः ॥ १० ॥
०
हे इन्दुधर चन्द्रमौले, त्वं ममाक्रन्दं कर्णे धारय । शृणुष्वेत्यर्थः । हे परमकारण ब्रह्मा-
दीनां षट्कारणानामपि कारण परमशिव, स कस्त्वत्परः कर्णधारः श्रुतौ (?) अथ च कर्ण-
धारो नाविकः । कर्णमरित्रं धारयति कर्णधारो नाविकः । स क इत्याह – मूर्धेत्यादि । य
ईश्वरः कर्णधारः उडून्नक्षत्राणि पातीत्युडुपश्चन्द्रस्तस्य खण्डस्तं चन्द्रशकलं मूर्ध्ना शिरसा
वहन्संसृतिसागराद्भवसागरात्कं कं नाखण्डपुण्यं पूर्णपुण्यं जनं तारयति । अथ चोडुपं
प्लवः । "उडु जलम् । यथा 'उडुहस्तिनीसहस्रवर्णम्' इति हरिप्रबोधः । अत्रोडहस्तिनी
जलहस्तिनीत्यर्थे । उडव आपः इति शिक्षाकरगुप्तः । उडुनि जले उडुनो जलाद्वा ।
उडुपं ह्रस्वादि ह्रस्त्रमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः, चन्द्रगोमी च । अतः
पुंस्यपि । उत्तारयत्यद्भथ इति उदुपधादप्शब्दस्याकारस्योत्वे नैरुक्ते वर्णविकारे उडुप
इत्युज्ज्वलदत्तः ।" इति रायमुकुटीकारः । उडुपखण्डं प्लवखण्डं धारयन्कर्णधारो ना-
विकः सागरात्परिपूर्ण तारयति यथा । एतद्द्वृत्ताशयानुसारेण ममापीदं वृत्तद्वयम् ।
यथा – 'बहुविधपरिभ्राम्यन्मायातरङ्गशताकुलाद्भवजलनिधेः को वा त्रासो ममास्ति
Digitized by Google