This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१६१
 
जाने इति किमिति । शोको जन्मजरामरणजः स एव वहिह्निस्तेन तप्तान्मम हृदयात्कथं-

चिदुदिता उत्पन्ना उत्थिता च स्लन्ति गद्गदानि मृदूनि कोमलानि पदानि सुप्तिङ्ङन्तानि

यस्याः सा तादृशी इयं मम गौर्वाणी करुणैवामृतप्रवाहनिःष्पन्दस्तेन शीतं शीतमयूख-

मौलेः श्रीशिवभट्टारकस्य चेतोऽपि शनैः प्रवेक्ष्यति । अथ च गौर्धेनुर्वहिह्निसंतप्तात्स्थाना-

न्
निर्याता लुठन्मन्दचरणा जलप्रवाहशीतलमास्पदं प्रविशति ,तथेयं मम वाण्यपि भगव-

तश्चेतः प्रवेक्ष्यतीत्यर्थः ॥
 
'>
 

 
यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं
 

मोहं वहन्निह मुहुर्मुहुराचरामि ।
तत्र स्ट

तत्र स्पृ
हावहमहार्यमहार्यपुत्री-

भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ ६ ॥
 

 
मोहमविद्यापर्यायमज्ञानं वहन्नलक्ष्ङ्घ्यो लङ्घयितुमशक्यो भवे संसारे भ्रमो यस्य स ता-

दृशोऽहमिह जगति मुहुर्मुहुश्चाटुचापलं चाटून्येव चापलं यदाचरामि करोमि तत्र चा-

टुचापलकरणे अहार्यपुत्रोभर्तुरहार्यस्य पर्वतस्य हिमाद्रेः पुत्री पार्वती तस्या भर्तुः श्री-

शंभोरहार्यं केनापि हर्तुमशक्यं परार्ध्यमुत्कृष्टं सौकुमार्यं सुकुमारभाव एवापराध्यति ।

'अहार्यधरपर्वताः' इत्यमरः । यदि श्रीभगवतः पेशलाशयत्वं न स्यात्तदा ममापि चाटु-

चापलकृतिर्न भवेदित्याशयः ॥
 

 
यो मूर्धनि ध्वनदनर्गलनिर्झरौघ-

झांकारिणीममरनिर्झरिणीं दधानः ।

गृह्णाति भक्तजनतः कलशाभिषेकं
 

कस्तं न विज्ञपयितुं विभुमुत्सहेत ॥ ७ ॥
 

 
यो विभुर्मूर्धनि शिरसि निजे ध्वनन्तोऽनर्गला अव्युच्छिन्ना ये निर्झरा: प्रवाहास्ते-

षामोघाः समूहास्तैर्झांकारिणीं सशब्दाममरनिर्झरिणीं देवनदीं गङ्गां दधानः । स्वयमिति

शेषः । स्वयं गङ्गां शिरसि दधानः कृपया भक्तजनतो निजोपासकादर्चनावसरे कलशा-

भिषेकं मन्त्रगडु<flag></flag>काभिषेकं गृह्णाति तं दयालुशिरोमणि विभुं श्रीशिवभट्टारकं विज्ञपयितुं

निजावस्थां निवेदयितुं को न उत्सहेत । अपि तु सर्व एवेत्यर्थः ॥
 

 
दग्धोऽस्मि तावदमुना दमुना ममान्त-

र्यः प्रज्वलत्यघनिदाघनिदानजन्मा ।

मुक्तस्य मे प्रतिभयातिभयाकुलस्य
 

वाणी कथं विगलतो गलतोऽभ्युदेति ॥ ८ ॥

 
तावत्प्राथम्ये । अमुना दमुनसा अग्निना अहं दग्धोऽस्मि । अमुना केनेत्याह – द.
 
२१
 
Digitized by Google
 
-