This page has not been fully proofread.

१६०
 
काव्यमाला ।
 
सेव्या इयं वाणी भारती दुःसहा या विपजन्मजरामरणत्रासरूपा आपत् तत्र पतितस्य
यस्य मम दवीयसी अतिशयेन दूरस्थिता न भवति । किं तु निकटस्थितैव । स्वमुख एव
तत्स्थानात् । केव । सौमेरवी सुमेरुगिरिसंबन्धिनी पदवी सरणिरिव । सापि दुःसहविप
त्पतितस्य कठिनव्यापत्पतितस्य धृतोन्नतिर्घृता उन्नतिर्यया सा तथा अपुण्यकृतां दुष्कृ
तिनामभूमिः कल्याणिनी श्वःश्रेयसमयी सुमनसां देवानामुपसेवनीया ॥
धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य
सानुग्रहेण विधिना परिकल्पिता मे ।
वल्गुलना गुणवती धृतवक्रमङ्गि-
राराधनाय गिरिशस्य सरस्वतीयम् ॥ ३ ॥
 
सहानुग्रहेण वर्तते यः स तादृशेन विधिना स्रष्ट्रा वल्गवः स्वनाः शब्दा यस्याः सा ।
तथा गुणा माधुर्यौजः प्रसादाख्यास्त्रयः शब्दगुणा अर्थगुणाश्च विद्यन्ते यस्याः सा ।
तथा धृता वक्रभङ्गिरुपचारवक्रोक्तिर्यया सा तादृशी चेयं सरस्वती भारती मोहोऽज्ञान-
मेव तिमिरं तेनान्धा दृक् ज्ञानमेव दृक् नेत्रं यस्य स तादृशस्य मम गिरिशस्य शंभो-
राराधनायोपासार्थ परिकल्पिता सोऽहं धन्योऽस्मि । अथ च सरस्वती वीणापि वल्गुस्वना
मधुरस्वना गुणास्तन्त्र्यो विद्यन्ते यस्या गुणवती धृतवक्रभङ्गिः कुटिला च तिमिरेण
तिमिराख्येण नेत्रदोषेणान्धदृशः पुरुषस्य गिरिशस्याराधनाय सप्रसादेन विधिना क्रियते ॥
संजीवनौषधिरवैमि न वा भवाग्नि-
भस्मीकृतस्य विधिना मम निर्मितेयम् ।
वाणी शिवैकविषयाभिनवोढगौरी-
दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ ४ ॥
 
अहमित्यवैमि जाने । इति किम् । भवस्य शंभोरग्मिना तृतीयनेत्रोत्थवहिना भस्मीकृ
तस्य मकरध्वजस्य कामस्य नवा संजीवनौषधिः शिव एवैको विषयः स्थानं यस्याः सा
चकिता अभिनवोढा चासौ गौरी पार्वती तस्या दृष्टिच्छटेव दृष्टिलहरीव विधिना सृष्टा ।
भवः संसार एवाग्निस्तेन भस्मीकृतस्य मम नवा संजीवनौषधिः संजीवनीनाम्नी ओषधिः
शिवैकविषया भारती वाणी सृष्टा निर्मिता ॥
 
जाने कथंचिदुदिता मम शोकवह्नि-
तप्तात्स्खलन्मृदुपदा हृदयादियं गौः ।
चेतः प्रवेक्ष्यति शनैः करुणामृतौघ-
निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ ५ ॥
 
१. कल्याणं सुवर्ण तन्मयी. कनकमयत्वात्सुमेरो:.
 
Digitized by Google