This page has been fully proofread once and needs a second look.

१५८
 
काव्यमाला ।
 
निगूढतिमिघट्टनस्फुरितदीर्घिकासंभ्रम-

त्रसत्कमलकोटरस्थितमरालबालस्वनैः

रटत्पटहझल्लरीमुरजतूर्य भेरीगण-

 

प्रणादमुखरी भवद्भवनबर्हिकारवैः ॥ ८८ ॥
 

 
सुधामधुरवारुणीरसकषायकण्ठोद्भव-

न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः ।
 

प्रवीण परिवादकोदितविभासरागस्वर-

क्रमानुगतवल्लीकीविकचकीचकप्रक्कणैः ॥ ८९ ॥

 
प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति -

प्रबुद्धशुकशारिकाकलहकेलिकोलाहलैः
 
-
 

बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण-

क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९० ॥
 

 
खुरक्षतवसुंधरोद्धुरतुरंगहेषोन्मिष
 

त्प्रबोधघुधुतकंरद्विरदकण्ठघण्टारवैः ।
 

स्मरालसविलासिनीस्तनभरोपरुडोद्धोरस-

स्त्यजन्ति शयनं शनैरुषसि शंभुशंसाजुषः ॥ ९१ ॥

(पञ्चभिः कुलकम् )
 

 
शंभोः श्रीशिवभट्टारकस्य शंसा स्तुतिस्तां जुषन्ति सेवन्ते निपुणकविकर्मणा श्रवणेन

च ये ते शंभुशंसाजुषः परमेश्वरस्तुतिकर्तारः कवयः श्रोतारः सहृदयाश्च शयनं त्यजन्ति

निद्रारसं परिहरन्ति । कदा । उषसि प्रभाते । कैः । अदूरं समीपवर्ति यद्हिरङ्गनं तत्रो-

पवनमुद्यानं तत्र जाता याश्चूतवल्ल्यो रसालवृक्षपङ्क्तयस्तासु विलीनाः कला मधुरभाषिणो

ये कोकिलाः पुंस्कोकिलास्तैराकलितानि काकलीस्वरविशेषरूपाणि यानि कूजितानि

कुहूशब्दास्तैः । 'काकली तु कले सूक्ष्मे इत्यमरः । पुंस्कोकिलकुहूरवैः शयनं त्यजन्ती-

त्यर्थः । एवमग्रेऽपि । तथा वलन्मन्दं भ्रमन्यो मलयमारुतस्तेन प्रचलन्त्य उल्लसन्त्यः

सोल्लासा या मल्लिकास्तासां विकासीनि प्रफुल्लानि यानि कुसुमानि तेभ्यः स्खलन्ती या

भसलमण्डली भ्रमरसमूहस्तस्या गुञ्जितानि स्वनास्तैः शयनं त्यजन्तीति योजना । 'भस-

लश्चञ्चरीकश्चरीकश्च रोलम्बेन्दिन्दिरौ समौ' इति कोषः । तथा निगूढा जलान्तर्निलीना ये

तिमयो मत्स्यास्तेषां घट्टनेन हननेन स्फुरितो यो दीर्घिकाणां संभ्रमः कम्पस्तेन त्रसन्तः

सत्रासा ये कमलकोटरे पद्ममध्ये स्थिता मरालबाला हंसशिशवस्तेषां स्वनास्तैः शयनं
 
Digitized by Google