This page has not been fully proofread.

१५८
 
काव्यमाला ।
 
निगूढतिमिघट्टनस्फुरितदीर्घिकासंभ्रम-
त्रसत्कमलकोटरस्थितमरालबालस्वनैः
रटत्पटहझलरीमुरजतूर्य भेरीगण-

 
प्रणादमुखरी भवद्भवनबर्हिकारवैः ॥ ८८ ॥
 
सुधामधुरवारुणीरसकषायकण्ठोद्भव-
न्नवश्वतिरसायनप्रगुणगायनीगीतकैः ।
 
प्रवीण परिवादकोदितविभासरागस्वर-
क्रमानुगतवडकीविकचकीचकमक्कणैः ॥ ८९ ॥
प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति -
प्रबुद्धशुकशारिकाकलहकेलिकोलाहलैः
 
-
 
बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण-
क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९० ॥
 
खुरक्षतवसुंधरोद्धुरतुरंगहेषोन्मिष
 
त्प्रबोधघुतकंघरद्विरदकण्ठघण्टारवैः ।
 
स्मरालसविलासिनीस्तनभरोपरुडोरस-
स्त्यजन्ति शयनं शनैरुषसि शंभुशंसाजुषः ॥ ९१ ॥
(पञ्चभिः कुलकम् )
 
शंभोः श्रीशिवभट्टारकस्य शंसा स्तुतिस्तां जुषन्ति सेवन्ते निपुणकविकर्मणा श्रवणेन
च ये ते शंभुशंसाजुषः परमेश्वरस्तुतिकर्तारः कवयः श्रोतारः सहृदयाश्च शयनं त्यजन्ति
निद्रारसं परिहरन्ति । कदा । उषसि प्रभाते । कैः । अदूरं समीपवर्ति यद्वहिरङ्गनं तत्रो-
पवनमुद्यानं तत्र जाता याश्वतवल्लयो रसालवृक्षपयस्तासु विलीनाः कला मधुरभाषिणो
ये कोकिलाः पुंस्कोकिलास्तैराकलितानि काकलीस्वरविशेषरूपाणि यानि कूजितानि
कुहूशब्दास्तैः । 'काकली तु कले सूक्ष्मे इत्यमरः । पुंस्कोकिलकुहूरवैः शयनं त्यजन्ती-
त्यर्थः । एवमग्रेऽपि । तथा वलन्मन्दं भ्रमन्यो मलयमारुतस्तेन प्रचलन्त्य उल्लसन्त्यः
सोल्लासा या मल्लिकास्तासां विकासीनि प्रफुल्लानि यानि कुसुमानि तेभ्यः स्खलन्ती या
भसलमण्डली भ्रमरसमूहस्तस्या गुञ्जितानि स्वनास्तैः शयनं त्यजन्तीति योजना । 'भस-
लश्चश्चरीकश्च रोलम्बेन्दिन्दिरौ समौ' इति कोषः । तथा निगूढा जलान्तर्निलीना ये
तिमयो मत्स्यास्तेषां घट्टनेन हननेन स्फुरितो यो दीर्घिकाणां संभ्रमः कम्पस्तेन त्रसन्तः
सत्रासा ये कमलकोटरे पद्ममध्ये स्थिता मरालबाला हंसशिशवस्तेषां स्वनास्तैः शयनं
 
Digitized by Google