2023-10-13 08:25:26 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
१९७
वन्दनीया सर्वैर्जातिर्ब्राह्मणजातिः । एतान्सर्वान्पूर्वपक्षीकृत्योत्तरपक्षमाह-प्रभुरपी-
त्यादि । भक्त्या भक्तिमात्रेणैव सुलभो भवानपि भवादृशोऽपि प्रभुः स्वामी । सकलजग-
दुद्धारकारीत्यर्थः । इत्यनेन प्रकारेणेयं सामग्री नीरोगशरीरादिरूपा यावन्न विघटते विश्लेष
याति विश्व
याति विशृङ्खला भवति । हे विभो, तावदेवेदं समाक्रन्दितं विलपितं शृणु कर्णगोचरं
नय । अर्थान्ममैव । यावत्सामग्री संपूर्णा भवति तावदेव परमेश्वरोपासा सर्वथा मतिम-
द्भिर्विधेयेत्यर्थः ॥
जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा
विकस्वर
विकस्वरशरत्सुधाकरकरानुकारित्विषः ।
पुरारिपदपङ्कजस्तव पवित्र
समुन्मिषितमालती
पुरारे: श्रीशिवभट्टारकस्य पदाम्भोजस्तुतिपवित्रश्चित्रो रम्यः क्रमो यासां ताः ।
तथा अमृतसारेण सिक्तान्यक्षराणि वर्णानि यासां ताः । तथा विकस्वरः पूर्णो यः शर-
त्सुधाकरः शारदचन्द्रस्तस्य किरणानुकारिकान्तयः । अतिस्वच्छा इत्यर्थः । तथा समु-
न्मिषितानि यानि मालतीमुकुलानि जातीकुड्मलानि तद्वत्कोमलाः सूक्तयः प्रौढोक्तयः
कृतिनो धन्यस्य कस्यापि कवेर्जयन्ति सर्वोत्कृष्टा भवन्ति ॥
शिवस्तवकृतो मधौ मलयवायुवे
गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् ।
नदन्मदनशिञ्जिनीझणितभी
भुजाकलितकंधरा अधिवसन्ति लीलावनम् ॥ ८६ ॥
..मलयवायुना वेल्लन्तो या लतास्ताभ्यो गलन्मधु किंजल्कस्तेन
मदस्तेनोन्मदा ये भ्रमरास्तेषां पु
कामधनुर्ज्याशब्दभीतकामिनीभुजाश्लिष्टकंधरा मधौ वसन्ते नदन्ती शब्दायमाना या
मदनशिञ्जीनी । अत्र धनुरित्यध्याहारः । मदनधनुर्गुणस्तस्य झणितं विस्फारस्तेन भीता
याः सीमन्तिन्यो वराङ्गनास्तासां भुजा बाहास्ताभिराकलिता आश्लिष्टा: कंधरा ग्रीवा
येषां ते तादृशाः ॥
अदूरबहिरङ्गनोपवनजात
विलीनकलकोकिलाकलितकाकलीकूजितैः ।
वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका-
विकासिकुसुमस्खलद्भसलमण्डली गुञ्जितैः ॥ ८७ ॥
Digitized by Google