This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
वाच्यं का निन्दा भवति । 'पयः कीलालममृतम्' इत्यमरः । 'शिस्त्राखावलः शिखी केकी'

इति च । द्वौ वा त्रयो वा द्वित्राः ॥
 

 
शुभ्रं बिभ्रत्तरुणकरुणाक्रान्तमश्रान्तमन्तः
 

स्वान्तं शान्तप्रणतजनता क्लेशलेशप्रवेशम् ।

प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग-

व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ ८२ ॥
 

 
हे चण्डीश शंभो, अश्रान्तमविरतं तरुणा नवा या करुणा कृपा तयान्तः कान्तम् ।

तथा जनानां समूहो जनता । शान्तः शमं प्राप्तः प्रह्वजनताक्लेशलेशस्य प्रवेशो यत्र तत्तादृशं

स्वान्तं हृदयं शुभ्रं स्वच्छं बिभ्रत्त्वं प्राणानां त्राणं तस्य प्रणयो याच्याञा तेन कृपणा दीना

ये प्राकृताः पामराः प्राणिनो जन्तवस्तेषां वर्गः समूहस्तस्य या व्यापजन्मजरामरणक्ले-

शव्यापत्तया यस्तापस्तस्य क्षपणे दूरीकरणे निपुणा दक्षा या तादृशीं वाणीं भारतीं

मुञ्च
 

 
अदम्भ्रश्वभ्रेयं भवसरणिरातङ्कबहुला
 

गलद्बोधज्योत्स्ना निरवधिरसौ मोह[^१]रजनी ।

नयन्त्येते शान्तितिं विषमविषयोत्पातमरुतः
 

प्रदीपं प्रज्ञाख्यं प्रतिदिश दशं क्लेशशमनीम् ॥ ८३ ॥

 
श्वभिर्भ्रान्तं श्वभ्रमिति स्वामी । 'रन्ध्रं श्वश्भ्रं वपा सुषिः' इत्यमरः । आत ङ्कैर्दुःखै

रोगैश्च बहुलेयं भवसरणिः संसारपद्धतिः अदभ्राणि श्वभ्राणि रन्ध्राणि च्छलानि यस्यां

सा तादृश्यस्ति । असौ निरवधिरनन्ता मोहरजनी अज्ञानरूपा रात्रिर्गलन्ती निवृत्य

स्थिता बोधो ज्ञानमेव ज्योत्स्ना यस्याः सा । निवृत्तज्ञानप्रकाशेत्यर्थः । एते विषमाः सु.
-
कठिना विषया इन्द्रियार्थाः शब्दादय एवोत्पातमरुतः कल्पान्तवायवः प्रज्ञाख्यं चेत-

नारूपं प्रदीपं शान्तितिं शमं नयन्ति ।हे स्वामिन्, अतो हेतोः क्लेशं भवमरुभ्रमणजं क्ले-

शान्पश्ञ्चाविद्यादीन्वा शमयतीति तादृशीं दृशं दृष्टिं प्रतिदिश प्रयच्छ । भक्तिप्रह्वजना-

येति शेषः ॥
 

 
शरीरं नीरोगं नवमपि वयः संस्कृतिमती
 

मतिर्वन्द्या जातिः प्रभुरपि भवान्भक्तिसुलभः ।

इतीयं सामग्री सुकृतशतलभ्या विघटते
 

न यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥ ८४ ॥

 
निर्गता रोगा ज्वरातीसारादयो यस्मात्तत्तादृशं शरीरम् । तथा वयः शरीरावस्थारूपं
 

 
[^
]. 'मोहजननी' ख.
 
Digitized by Google