This page has been fully proofread once and needs a second look.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा
 

बाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥ ७९ ॥
 

 
हे विभो, क्षणिकमस्थिरं तथा स्वल्पं च विषयजं विषयेभ्य इन्द्रियार्थेभ्यः शब्दा-

दिभ्यो जातं सुखं स्थिरेण ध्रुवेण तथा महता च त्वद्भावनाजन्मना त्वदेकताध्यानज

न्मना ह्लादेनानन्देन यत्खर्वीक्रियतेऽल्पीक्रियते किमत्राद्भुतम् । न किंचिदित्यर्थः । तत्तु

चित्रम्, अध्रुवेण क्षणिकेन तथा सूक्ष्मेण च भवतो यदनुध्यानं चिन्तनं तेन यत्प्रमोदाश्रु

आनन्दाश्रु तेन ध्रुवं स्थिरं सुमहच्च भवदुःखजं संसारदुःखजातं बाष्पाम्बु अश्रुजलं य-

द्भिद्यते तदतीव चित्रमित्यर्थः । स्थिरतरं सुमहद्भवदुःखं भवदनुध्यानेन क्षणिकेन सू.

क्ष्मेणापि निराक्रियत इति भावः ॥
 

 
अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिघैः
 
धैः
क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः ।

क्रन्दन्तं शरणागतं गतवृतिधृतिं सर्वापदामास्पदं
 

मा मा मुश्ञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥ ८० ॥

 
हे महेश परमेश, अज्ञानान्धतमसरूपेणान्धम् तथा अबान्धवं अविद्यमानो बान्धव

आश्वासकारी यस्य स तादृशम्, तथा अक्षाभिधैरिन्द्रियनामभी रक्षोभिः कौणपैः कवलितं
प्

ग्
रस्तम्, आभ्यन्तरैर्दुर्हृद्भिः शत्रुभिः कामक्रोधादिभि: मोहोऽविद्यारूप एव महान्धकू-

पस्तस्य कुहरं रन्ध्रं तत्र क्षिप्तम्, तथा क्रन्दन्तं विलपन्तं शरणार्थमापन्नम्, तथा गता

धृतिः पारोत्तरणधैर्यं यस्य स तादृशम्, तथा सर्वा जन्मजरामरणत्रासरूपा या आपद-

स्तासामास्पदं स्थानं मां कर्मभूतं मा मुश्च मा त्यज । पेशलया कोमलया सकृपया दृशा

सत्रासं मां कर्मभूतमाश्वासय ॥
 

 
यद्विश्वोद्धरणक्षमाप्यशरणत्राणैकशीलापि ते
 
मामाते ह

मामार्तं दृ
गुपेक्षते स महिमा दुष्टस्य मे कर्मणः ।

देव्यां दिव्यमतैः पयोधरवृ[^१]धृतैः पृथ्वीं टे[^२]पृणत्यां कणा
 

द्वित्रा श्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ ८१ ॥

 
हे स्वामिन्, विश्वस्य त्रिजगत उद्धरणे भवार्णवोत्तारणे क्षमा समर्थापि, तथा अशर-

णानां त्राणं रक्षणमेवैकं शीलं स्वभावो यस्याः सा तादृश्यपि ते तव दृग्दृष्टिरार्तेतं भव

रोगार्तेतं मां यदुपेक्षते स महिमा मम मत्कस्य दुष्टस्य विरुद्धस्य कर्मणो भवति । युक्तं

चैतत् – पयोधरभृधृतैर्मेघधारितैरमृतैर्जलैः पृथ्वीं पृणत्यां पूरयन्त्यां सत्यां देव्यां भगवत्यां

दिवि आकाशे द्वित्राः कणाः शिखिनो मयूरस्य मुखे चेन्न पतन्ति तद्दिवो नभसः किं

 
[^
]. 'भृतैः' ख.
[^
]. 'स्तृणन्त्यां' ख.
 
Digitized by Google